________________ 2 अङ्कः] कर्णसुन्दरी। राजापुष्पेषोरभिषेकयोग्यमथ वा भर्गाग्निमनात्मनः प्रत्युज्जीवनमेतदम्बुजसरः कम्बुप्रसन्नच्छवि / यत्त्वानेडितशीतरश्मिकिरणस्यन्दोपमेनामुना लावण्यामृतनिझरेण सुतनोर्यत्पात्रतां नीयते // 19 // अपि च / आश्चर्य फलितं सरोरुहवने स्थित्वा चिरेण श्रियः ___ कान्तिः कान्तिसुधाद्रवेण सुतनोर्याता यदत्राधुना / सान्द्रप्रेमवशीकृतस्य नियतं कौमोदकीलक्ष्मणः साप्यङ्गे गिरिजेव मन्मथरिपोः कामास्त्रमुत्स्रक्ष्यति // 20 // विदूषकः–वणाणिलवेल्लिदविद्रुमकिसलअसरिच्छपप्फुरिदाहरोही अङ्गुलिविवत्तणमणोहरकरपल्लवा नासग्गलग्गअविसकन्दोदृसलोणलो- . अणा जादा / (क) राजा. स्फुरति यदयं दन्तज्योत्स्नाविलासधरोऽधरः करकिसलियो मुद्रायोगाद्यदुच्चलिताङ्गुली / मुकुलनविधिर्यन्नीलाब्जद्विषोरपि चक्षुषो स्तदियमबला ध्यायत्यन्तः किमप्यधिदैवतम् // 21 // विदूषकः-(सकौतुकम् / ) भो, कीस एसा सुण्णं पुणो पुणो पाणिं णीरमज्झादो आअहदि / (ख) राजा-(दृष्ट्वा / ) . सुतनुरनवलोकयन्त्युपान्ते स्थितमपि काञ्चनकुम्भमम्बुपूर्णम् / क्वचिदपि गतमानसा करेण स्टशति कुचप्रतिबिम्बमम्बुमध्ये // 22 // (क) वनानिलवेल्लितविद्रुमकिसलयसदृक्षप्रस्फुरिताधरोष्ठी अङ्गुलिविवर्तनमनोहरकरपल्लवा नासाग्रलग्नाविस्पष्टनीलोत्पलसलावण्यलोचना जाता / (ख) भोः, कस्मादेषा शून्यं पुनः पुनः पाणिं नीरमध्यादाकर्षति /