________________ 73 जीवानन्दनम् / अतः किल / . विज्ञानशर्महतकस्य वृथा कुमन्त्रै |रामिमां सुमहतीं गतमापदं त्वाम् / आकर्ण्य देव हितवागुपदेशहेतो___ रद्यान्तिकं तव गतोऽस्म्यनृणो बुभूषुः / / 12 // कर्म-ततस्ततः। कालः–ततश्च राजा सरलप्रकृतितया 'सखे ज्ञानशर्मन्, चिरेण दृष्टोऽसि / त्वत्तोऽपि मे श्रेयःसंपादकः कोऽन्योऽस्ति / तत्कथय प्रस्तुतोचितं हितम्' इति तमन्वयुत। कर्म-ततस्ततः। कालः–ततो ज्ञानशर्मा राजानमुपवरे स्वैरमित्थं बोधयामास / शश्वन्नश्वरमेव विश्वविदितं पापप्ररोहस्थलं मेदोमज्जवसास्थिमांसरुधिरत्वग्रोमकूपं वपुः / एतस्मिन्मलमूत्रभाण्डकुहरे हेये मनीषावतां दुःखे न्यायविदो विमोहमिह. के तन्वन्ति नन्वन्तिमे // 13 // जगत्प्रोतं यस्मिन्विविध इव सूत्रे मणिगणः समस्तं यद्भासा तदपि च विभाति स्फुटमिदम् / अखण्डानन्दं यन्निरवधिकसच्चित्सुखमयं निराकारं यत्तत्त्वमसि परमं ब्रह्म न पुमान् // 14 // तत्तादृशः सुखघनस्य निरञ्जनस्य ___ सर्वात्मनापि ननु हेयतरे पुरेऽस्मिन् / विज्ञानशर्मवचनैविपरीतवृत्ते मन्ये न युक्त इव ते ममताभिमानः // 15 // इत्यादिभिर्बहुविधैरुपपत्तिपूर्वै रेतैर्वचोभिरथ तेन रहः प्रयुक्तैः / कोषे बले रिपुवधे च बभूव सद्यो जीवो विरक्तहृदयो विगताभिमानः // 16 //