________________ 3 अङ्कः] . जीवानन्दनम् / 45 प्रासादोदरपुञ्जितप्रतिरवप्राग्भारदीर्घाकृतं सद्यः पञ्जरगर्भ एव चकितानुब्रामयन्तं शुकान् / कार्यव्याप्रियमाणमानवमुखं कर्षन्तमात्मोन्मुखं मध्याह्नागमसूचनाय पटहो धत्ते ध्वनि ताडितः // 2 // संप्रति हि घोरातपसंतापमसहमानाः प्राणिनः प्रायेण प्रच्छायशीतलं प्रदेशमावासाय प्रार्थयन्ते / तथा हि / आसीदन्ति विशालशैलशिखरभ्रश्यन्नदीनिझरां शुक्लापाङ्गकुलानि सूर्यकिरणैः शून्यामरण्यावनीम् / आवर्तस्फुटपुण्डरीकमुकुलप्रेङ्खोलनोद्गन्धिना / तृप्यन्तो मरुता स्वपन्ति च नदीतीरे बिलेषूरगाः // 3 // मत्री-अहो यौवनश्रियं पुष्णात्येष दिवसः / यतः / ____ छायाशीतलमध्वनि द्रुमतलं चण्डातपोपप्लुताः शौरि दानवपीडिता इव सुराः पान्था भनन्ति द्रुतम् / दुष्कीर्ति क्षितिपा इव प्रकृतिभिर्लोभावधूतार्थिनो गाहन्ते च करेणुभिः सह नदीमारण्यका वारणाः // 4 // अपि चेदानीम् घम्भिःकणलुप्यमानमकरीपत्राङ्कुरालंक्रियं भूयिष्ठोद्गतफूत्क्रियानिलगलन्मासृण्यबिम्बाधरम् / ताम्यल्लोचनतारकालसगतिव्याख्यातनिद्रागमं / प्रच्छाये पथि रोचते स्थितवते पान्थाय कान्तामुखम् // 5 // राजा-(स्वगतम् / ) नन्वस्मिन्नवसरे / स्नातव्यं जपितव्यं वसितव्यं नमसितव्यमत्तव्यम् / अ..........."मनुकूलं दैवतमत्र क्रमेण मया // 6 // (प्रकाशम् / ) किमतःपरमाचरितव्यम् / बिलं प्रवेशितो मण्डूक इव किमप्यनक्षरं प्रलपन्नमात्यो......"तिष्ठति / तत्समयं प्रतिपालयिष्यामि /