________________ 2 अङ्कः] . कर्णसुन्दरी / जेव्व मुहादो जाणिस्सम् / (पुनरवलोक्य / ) में पेक्खिअ एदाए किं पि अप. च्छादिदम्। (निरूप्य सशिरःकम्पम् / ) अस्थि एत्य वडे जक्खो / भोदु / संभाविअ जाणामि / (इति तथा करोति / ) (क) (ततः प्रविशति तरङ्गवती / ) - तरङ्गवती-(अप्रतोऽवलोक्य / ) एस दुहवडू पेक्खिस्सदि एदं सिसिरोवआरम् / ता अण्णदो गच्छामि / (इति तथा गच्छति / ) (ख) विदूषकः-(सत्वरमुपसृत्य / ) भोदि, कीस अण्णदो गच्छीअदि / अहं तुह ससिलेहाए विअ मग्गं पलोएमि / तुमं राहुं व मं पलिहलसि / किं ण्णेदम् / (ग) तरङ्गवती-अज्ज, कजन्तरपज्जाउलहिअअत्तेण ण लक्खिदोसि / पसीददु भवं / (घ) (क) अद्य प्रियवयस्येन दीर्घरोषां देवी प्रसाद्य मे किमपि ' समादिष्टम् / तदादिष्टार्थदूनो मञ्जिष्ठारुणेनारुणसारथिमण्डलेन सान्द्रायमाणेन रजनि जागरितोऽस्मि / न शक्नोमि शयनीयान्निद्रया हठान्मीलदृष्टिरुत्थातुम् / प्रियवयस्यचरणपतनसंतुष्टदेवीप्रसादलब्धैर्मोदकैः पुष्टभूयिष्ठं तिष्ठति मे उदरम् / निभृतमपवरकान्तरे खपिमि / अथवा कथं सुप्यते / यत्प्रियवयस्येन तस्या विद्याधरकन्यकायाः प्रवृत्ति ज्ञातुं किं सापि वयस्यसानुरागा न वेयाज्ञप्तोऽस्मि / तद्यावद्गत्वा कस्या अप्यन्तःपुरविलासिन्याः सकाशादन्यापदेशेन ज्ञास्यामि / कथमुत्पलतरङ्गा तरङ्गवतीतिनामधेया इत एवागच्छति / भवतु / अस्या एव मुखाज्ज्ञास्यामि / मां प्रेक्ष्यतया किमप्यपच्छादितम् / अस्त्यत्र वटे यक्षः। भवतु / संभाव्य जानामि / * (ख) एष दुष्टबटुः प्रेक्षिष्यत एतच्छिशिरोपचारम् / तदन्यतो गच्छामि / (ग) भवति, कुतोऽन्यतो गम्यते / अहं तव शशिलेखाया इव मार्ग प्रलोकयामि / त्वं राहुमिव मां परिहरसि / किं न्वेतत् / (घ) आर्य, कार्यान्तरपर्याकुलहृदयत्वेन न लक्षितोऽसि / प्रसीदतु भवान् / 1. एतावत्पर्यन्तमस्मिन्विदूषकवाक्येऽप्यत्यस्फुटं प्राकृतमस्ति.