________________ काव्यमाला / . वंशजगौरवयोगात्सुवृत्तताश्लाघ्यरूपसंभारः / कण्ठे हार इवासौ कृतस्तया गुणगणोदारः // 63 // कायपणार्जितबहुविधराजसुतामात्यबहुधनेन सह / अधुना त्वत्तनयोऽस्याः म्वामी प्राग्जन्मसंबन्धात् // 64 // उचिततरसङ्गसुभगां दृष्ट्वैव] कलावती रागयौवनोन्मत्ता / तव हस्ते निक्षिप्तं स्त्रीधनसहितं मया गेहम् // 65 // यातायां मयि तीर्थ कंचित्कालं त्वया कलावत्याः / / मुद्रामुद्रितमखिलं सर्वस्वं पालनीयं तत् // 66 // अद्य तु भवता कार्यः पुत्रस्नेहात्स्नुषानुरोधाच्च / अस्मद्गहे स्वल्पो भोज्योत्सवमङ्गलाचारः // 67 // उक्त्वेति साश्रुनयना कङ्काली तस्य वजहृदयस्य / निपपात चरणयुगले सुतलाभविशेषतुष्टस्य // 68 // स च तामुवाच भद्रे सर्वमिदं हर्षकारि कुशलतरम् / किं तु त्वद्गमनं मे नाभिमतं सह गमिष्यावः // 69 // परभोजननियमवता भोक्तव्यं त्वदृहे कथं नु मया / संभोजनमूल्यं मे गृह्णासि तदा गमिष्यामि // 70 // इत्युक्त्वास्या हस्ते दत्त्वा हृष्टः स रूपकं सार्धम् / तामन्तः स्मितवदनां विसृज्य पश्चाद्ययौ भोक्तुम् / / 71 // तत्र सुतं सविलासं दृष्ट्वा कान्तासनाथसंभोगम् / निर्व्ययभोज्यसमृद्ध्या निश्चिन्तः प्रीतिमानभवत् // 72 // कर्पूरैलापरिमलरसवासितविविधभोजनं भुक्त्वा / . पीत्वा च भूरि मद्यं जगाद लुब्धः स कङ्कालीम् // 73 // सततं दिनव्ययं वः सर्वमहं समुचितं प्रदास्यामि / एवंविधस्तु न पुनः कार्यः स्थूलव्ययारम्भः // 74 // इत्युक्त्वा स गृहं निजमगमद्गगनस्थलीकृषिकताशः / . लाभप्रदर्शनं किल लुब्धधियां वञ्चनोपायः // 75 //