________________ काव्यमाला। .. तावत्काचिदनङ्गजङ्गमपुरीवाग्रे मनोग्राहिणी। रम्भास्तम्भमनोहरोरुयुगला बालाभवच्चक्षुषोः // 30 // स्वप्नोऽसौ किमुतेन्द्रजालमपरं किं वा किमप्यद्भुतं __यत्सा कान्तितरङ्गिताङ्गलतिका दृष्टा कुरङ्गेक्षणा / उल्लेखः स नवीन एव सुमतेः कस्यापि रूपे विधेः संवादोऽपि न यस्य पङ्कजशशिज्योत्स्नामृणालादिभिः // 31 // विदूषकः--भो, एदस्स उजाणप्पदेसस्स किं करीअदु जत्थ अणत्यो एरिसो समावडिदो / (क) राजा-मूर्ख, . ... तदेकं देवस्य स्टशतु मदनस्यास्पदपदं - लतास्तास्तत्रत्याः स्तबकयतु चैत्रः प्रतिदिनम् / असौ दृष्टा यत्र क्षणममललावण्यसरसी ____ जगन्नेत्राचम्यं किमपि दधती कान्तिसलिलम् // 32 // विदूषकः-भट्टिणो संदावदाअणं ति भणामि / (ख) राजा-सखे, चान्द्री वर्तिनयनयुगले जीवलोकस्य सैका सा साम्राज्ये कुसुमधनुषः कीर्तिहेतुः पताका / तत्प्राप्त्याशाविवशमनसा केनचित्तप्यते चे __ निःसंबन्धं कथयतु भवान्कस्तदीयोऽपराधः // 33 // विदूषकः-(छोटिकां दत्त्वा / ) जइ एव्वं अत्थि विवेओ ता कीस ण विरजीअदि / (ग) राजा-अनभिज्ञोऽसि / कथ्यते / पश्य / . रागः कस्यचिदेति चेतसि पदं यः काकतालीयतः ___ कस्यांचिन्न विवेकवारिविसरै/तोऽपि नियात्यसौ / (क) भोः, एतस्योद्यानप्रदेशस्य किं क्रियते यत्रानर्थ ईदृशः समापतितः। (ख) भर्तुः संतापदायकमिति भणामि / (ग) यद्येवमस्ति विवेकस्तत्कुतो न विरज्यते /