________________ काव्यमाला। . . इन्दोर्गर्भ चिरमिव धृतैरङ्गकैस्तामनङ्गस्याङ्गावाप्तौ पुनरिव नवां सिद्धिमालेखयामि // 22 // (नेपथ्ये / ) जयति विश्रामावसरो देवस्य / संप्रति अन्योन्यं लज्जयेव प्रतिफलनमिषात्कुटिमान्तर्विशन्तः पातालं भूमिपालाः किसलयितशिखाः पाणिबन्धैः प्रणम्य / गच्छन्ति च्छत्रखण्डस्तबकितककुभश्चित्रवादित्रजैत्र ध्वानाकृष्टप्रहृष्टप्रचुरपुरवधूवीक्ष्यमाणा गृहाणि // 23 // अपि च / पञ्चास्त्रस्य त्रिलोकीहठविजयमहारम्भसंभारदीक्षा- .. __माचक्षाणा इवोच्चैर्जघनझणझणन्मेखलाचक्रवालैः / ध्वस्ताम्भोजैः सुभिक्षं दिशि दिशि विशदैर्दर्शयन्त्यश्च वक्र श्चन्द्राणां सान्द्रलीलातिलकितगतयो निर्गता वाररामाः // 24 // किं च। विश्रान्तो मुरजध्वनिर्जलधरध्वानानुकारी गताः संगीताङ्गणतस्तरङ्गितमुखज्योत्स्नारसा लासिकाः / चण्डः केलिशिखण्डिनां न विरमत्यद्यापि नृत्योत्सव श्चञ्चच्चञ्चव एव किं च विचरन्त्यन्तश्चकोराङ्गनाः // 25 // प्रणिधिः-यत्पुनर्देवो विश्राममण्डपमलंकृतवांस्तन्नूनमेतद्दर्शनजन्मा मन्मथावेग एव विविक्तस्थानस्थितिमुपदिशति / तद्गत्वा यथोचितं विरचयामि / (इति निष्क्रान्तः / ) / शुद्धविष्कम्भकः। (ततः प्रविशति राजा विदूषकश्च / ) राजा-(सौत्सुक्यम् / ) धातुस्तन्मुखवर्तनाफलहकः श्यामावधूवल्लभ स्तल्लेखोद्यततूलिकाग्रगलितास्ताराः सुधाविग्रुषः / 1. 'किशलयितशिखापाणि-' इत्यादर्शपाठः. 2. 'छत्रषंड-' इत्यादर्शपाठः. 3. 'ज्झणज्झण-' इत्यादर्शपुस्तकपाठः.