________________ ईदृश्यपि समभावो व्यवहारात् कर्मभेदतोऽशुद्धः / अतिचारात् सज्वलनैराकर्षाद्वाऽन्यथोच्छेदः / / 15 / / टीका - सत्यमिदं निश्चयनयाभिप्रायात्। व्यवहारा व्यवहारनयाभिप्रायात्तु ईदृश्यपि अप्रज्ञापनीयेऽपि समभावः सामायिकचारित्रलक्षण: सम्भवत्येव यत: कर्मभेदत:अशुभकर्मविपाकात् सामायिकवतोऽपि अशुद्धः मलिन: समभाव: अप्रज्ञापनीयत्वहेतुको जायते। एतदेव समर्थयति - सामायिकचारित्रे सत्यपि सञ्चलनैः कषायैः अतिचारात्चारित्रमालिन्याऽऽपादकात् सामायिकचारित्रीणो मनाग्मलिन: समभावो जायते, न तु सर्वथा चारित्राभावः। उपपत्त्यन्तरमाह - आकर्षाद्वा ग्रहणमोक्षलक्षणाद्वा सर्वविरतिसामायिकस्य प्रतिपातित्वमपि सिद्धमेव, एकभवेऽपि सर्वविरतिसामायिका-कर्षाणांशतपृथक्त्वश्रवणात्। तथा चागमः - तिण्ह सहस्सपहुत्तं, सयपहुत्तं च होइ विरइए / एगभवे आगरिसा, एवइआ होति नायव्वा / / 629 / / पं.व.।। एतट्टीका - त्रयाणां सम्यक्श्रुतदेशविरतिसामायिकानां सहस्रपृथक्त्वं, पृथक्त्वमिति द्विप्रभृतिरानवभ्यः। शतपृथक्त्वं च भवति विरते: सर्वविरति सामायिकस्य एकेन जन्मनैतद्। अत एवाह - एकभवे आकर्षा ग्रहणमोक्षलक्षणा एतावन्तो भवन्ति ज्ञातव्याः, परतस्त्वप्रतिपातोऽलाभो वेति गाथार्थः / / 629 / / अन्यथा सज्वलनानां कषायाणामुदयत आकर्षाद्वाऽन्यतरप्रकाराद् उच्छेदः प्रज्ञापनीयत्वाऽभाव: सम्पद्यत इति कृत्वा नास्त्येव दोष। अत एव निरतिशयगुरुणा सामायिकशून्यस्याऽपि तस्य त्यागो न कर्तव्यः, सामायिकस्य पुन: सम्भवात् सामायिकगतरागभावाच्च।अत्रार्थे पूर्वाचार्यभणितो यो क्रमः स पञ्चवस्तुग्रन्थानुसारेणाऽत्र प्रदर्श्यते - पितिपुत्त खुड्ड थेरे, खुड्डग थेरे अपावमाणम्मि / सिक्खावण पण्णवणा, दिटुंतो दंडिआई हिं / / 622 / / / अत्र वृद्ध व्याख्या - दो पितपुत्ता पव्वइया, जइ ते दोऽवि जुगवं पत्ता तो जुगवं उवट्ठाविज्जंति, अह 'खुड्डे' त्ति खुड्डे सुत्तादीहिं अपत्ते 'थेरे' त्ति थेरे सुत्ताईहिं पत्ते थेरस्स उवट्ठावणा, 'खुड्डग' त्ति जइ पुण सुत्तादीहिं पत्तो थेरे पुण अपावमाणमि तो जाव सुझंतो उवट्ठावणादिणो एति तावथेरो पयत्तेण सिक्खाविज्जइ, जदि पत्तो जुगवमुवट्ठाविज्जंति, अह तहावि ण पत्तो थेरो ताहे इमा विही / / 622 / / थेरेण अणुण्णाए, उवठाणिच्छे व ठंति पंचाहं / तिपणमणिच्छिावुवरिं, वत्थुसहावेण जाहीअं / / 6 23 / / अणुण्णाए खुड्डु उवट्ठावेंति, अह नेच्छइ थेरो ताहे पण्णविज्जइ दंडियदिढ़तेण, आदिसद्दाओ अमच्चाई, जहा एगो राया रज्जपरिभट्ठो सपुत्तो अण्णरायाणमोलग्गिउमाढत्तो, सो राया पुत्तस्स तुट्ठो, तं से पुत्तं रज्जे ठावितुमिच्छइ, किं सो पिया णाणुजाणइ?, एवं तव जइ पुत्तो महव्वयरज्जं पावइ किंण मण्णसि?, एवंपि पण्णविओ जइ निच्छइ ताहे ठवति पंचाहं, पुणोऽवि पण्णविज्जइ, अणिच्छे पुणोऽवि पंचाहं, पुणोवि पण्णविज्जइ, अणिच्छे पंचाहं ठंति, महामहोपाध्याय श्री यशोविजय विरचितं 34 मार्गपिरिशुद्धिप्रकरणंसटीकम्