________________ 712 'काव्यमाला। लंकाराः, जातिः, कारकंज्ञापकौ हेतू, चित्रहेतुश्चेत्यर्थालंकारा मिथः संकीर्यन्ते। शब्दोभयालंकारसकरो यथा'स्तोकस्तोकममूभिरम्बरतले ताराभिरस्तं गतं गच्छत्यस्तगिरेः शिरस्तदनु च च्छायादरिद्रः शशी / प्रत्यासन्नतरोदयस्य तरणेबिम्बारुणिम्ना ततो मञ्जिष्ठारसलोहिनी दिगपि च प्राची समुन्मीलति // 464 // ' अत्र समुन्मीलतीति विभक्तिमुद्रा, स्तोकस्तोकमस्तं गतं गच्छतीत्यादिरनुप्रासश्च शब्दालंकाराः, हेतूपमा, समाधिः, अनुक्रमः, समुचयोक्तिश्चेत्युभयालंकारा मिथः संकीर्यन्ते // अर्थोभयालंकारसंकरो यथा'खं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं चर्चा पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम् / गन्धं मुञ्चति सिक्तलाजसुरभिं वर्षेण दग्धा स्थली दुर्लक्ष्योऽपि विभाव्यते कमलिनीहासेन भासां पतिः // 465 // अत्र जातिः, अनुमानम् , कारकज्ञापकहेतू चेत्यर्थालंकाराः, रूपकोपमा, हेतूपमा, उत्प्रेक्षोपमेति चोभैयालंकारा मिथः संकीर्यन्ते // / एतेन गुणालंकारसंकरोऽपि व्याख्यातः / यतो यद्यपि गुणवत्येव वाक्येऽलंकारयोगस्तथापि कचिदू गुणस्य प्राधान्यं क्वचिदलंकारस्येति प्रधानाङ्गभावेन गुणालंकारयोः संकरव्यवहारः प्रवर्तते / स षोढा-शब्द 1. 'ज्ञापककारकहेतू' क. 2. 'मिथः शब्दे संकीर्यन्ते' ख. 3. 'एवमुभयालंकारसंकरो यथा' क. 4. 'अस्तं गच्छतीत्यादिः' ख. 5. 'चर्चा' क.ग. 6. 'सितजालसुरभि' क., 'सिक्तलाजसुरभिः' ख. 7. 'चेति उभयालंकाराः' क.ख. 8. 'अतो' क.ख. 1. 'संकरयोगः' क.ख.