________________ चाणक्यस्तन्मन्त्री तदानीमासीदिति निश्चितमेव / केनापि विदुषा चाणक्यनाम्नैव तवेतनीतिशतकं विरचितं भवेद् यदधुना बालकैः पठ्यते। चिनमः,चित्रमो वा-अस्य चित्रप इति छित्तप इति वा नामेति ऑफेक्टपन्डितः / शाधिरपद्धतौ 'छित्रम' इति, गणरत्नमहोदधौ तु चित्तप इति नाम समुपलभ्यते / 'कल्पान्ते शमितत्रिविक्रम' (पृ० 361) इति पद्यमेकमेवोपलब्धम् / कालविषयेस्य न किमपि ज्ञातम् / / जैमिनिसूत्रवृत्तिः–'जरद्वः कम्बलपादुकाभ्यां' (पृ. 36) इत्यादिपा भीमांसावृत्तेरुद्धृतं भोजदेवेन। * दण्डी-काव्यादर्शः, दशकुमारचरितम् , छन्दोविचितिश्चेति ग्रन्थत्रयस्य निर्माता षष्ठे शतके समुत्पन्नः / सरखतीकण्ठाभरणे काव्यादर्शात् 41 एकचत्वारिंशत् कारिकाः 164 चतुःषष्ट्युत्तरैकशतमुदाहरणानि च संकलितानि श्रीमता मोजदेवेन / प्रायो ग्रन्थेऽस्मिन् दण्डिविरचितस्य काव्यादर्शस्यैव विस्तरः। दीपकः-सुभाषितावलौ 'यदि स्मरामि तां तन्वीं' इति पद्यमुपलभामहे / अत्राप्येतत् पद्यमुदाहृतम् (पृ. 304) / . द्रोणपर्व-ततः कुमुदनाथेन' पृ० 134 इत्यादि पद्यं महाभारतीयद्रोणपर्वत उद्धृत्योदाहृतं भोजदेवेन। धनिकः-धनिको धनञ्जयश्च विष्णुतनूजो भ्रातरौ मुञ्जसमकालिको दशमशतकोत्पन्नौ / दशरूपकस्य का धनंजयः, तदालोकस्य कर्ता च धनिकः / दशरूपकालोकसरखतीकण्ठाभरणयोः षोडशोदाहरणानि समानि / धाराकदम्बः–'बाले मालेयमुच्चैर्न' पृ० 244 इति पर्व सुभाषितावली शाईधरपद्धतौ च धाराकदम्बनाम्ना प्राप्यते। नमिसाधु:-रुद्रटालंकारस्य टीकाकर्ता। सरखतीकण्ठाभरण उदाहृतानि वत्वायुदाहरणानि नमिसाधोष्टीकायामुपलभ्यन्ते / तानि यथा-'अयं पद्मासना. सीनः पृ. 42, ‘चन्द्रायते शुक्लरुचाथ' पृ. 411,19 'यस्या बीजमहंकृतिः' पृ० 423, 'यश्च निम्बं परशुना' पृ० 477, सोऽयं नमिसाधुः 1069 खिस्तवर्षे टीकां रचितवानिति टीकासमाप्तिश्लोकाज् ज्ञायते।