________________ 644 - काव्यमाला। करुणे निषिद्धं यथा'आवाअभअअरं चिण होइ दुक्खस्स दारुणं णिवहर्णम् / . णाह जिअन्तीअ मए दिळं सहिअं अ तुह इमं अवसाणम् // ' [आपातभयंकरमेव न भवति दुःखस्य दारुणं निर्वहणम् / नाथ जीवन्त्या मया दृष्टं सोढं च तवेदमवसानम् // ] तदेतद्रामविषये सीतायाश्चिराशंसितसमागमसुखावाप्तिव्यपायरूपं वचनं करुणे निषिध्यते // प्रथमानुरागेण सह रागो यथा'सा महइ तस्स हाउं अणुसोत्ते सोवि से समुव्वहइ / थणवट्टभिडणविलुलिअकल्लोलमहग्धिए सलिले // 256 // ' [सा वाञ्छति तस्य स्नातुमनुस्रोतसि सोऽप्यस्याः समुद्वहति / स्तनपृष्ठमिलनविलुलितकल्लोलमहाघिते सलिले // ] अत्र द्वयोरप्येककालमन्योऽन्यानुरागः प्रतीयते तत्रैका लावण्यादिना रज्यतेऽन्यः स्नेहादिनेति // तत्रैव पश्चाद्यथा'मामि हिअ व पीअं तेण जुआणेण मज्जमाणाए / ण्हाणहलिँदाकडुअं अणुसोत्तजलं पिअंतेण // 257 // ' मातुलानि हृदयमेव पीतं तेन यूना मज्जमानायाः / स्वानहरिद्राकटुकमनुस्रोतोजलं पिबता // ] अत्रैकस्यानुरागं दृष्ट्वा पश्चाद्वितीयो रज्यते // 2. 'अवसाणं' क.ख. 3. 'मज्जमातीए' क.ख. 4. 'ह * 1. 'विअ' ख. लद्दा' क.ख.