________________ 5 परिच्छेदः / सरखतीकण्ठाभरणम् / 623 चकितं स्त्रिया यथा'णवैलइ पहारतुट्ठाई तं कअं किं पि हलिअसोण्हाए। - जं अज्ज वि जुअइजणो घरे घरे सिक्खिउं भमइ // 175 // ' पतिनामप्रश्नपूर्वकप्रहारतुष्टया तत्कृतं किमपि हालिकस्नुषया / यदद्यापि युवतिजनो गृहे गृहे शिक्षितुं भ्रमति // ] हेला हावश्च भावश्व व्याजो विस्रम्भभाषणम् / चाटु प्रेमाभिसंधानं परिहासः कुतूहलम् // 168 // चकितं चेति निर्दिष्टाश्चेष्टाः काश्चिद्विलासिनाम् / शेषाणां विप्रलम्भादौ रूपमाविर्भविष्यति // 169 // तत्र नायकयोः प्रागसंगतयोः, संगतयोश्च, संगतवियुक्तयोर्वा, मिथोदर्शनश्रवणाभ्यामवस्थिताभिमानजन्मा परस्परानुरागोऽन्यतरानुरागो वाभिलषणीयालिङ्गनादीनामनवाप्तौ सत्यां समुपजायमानैस्तैस्तैरुत्कण्ठादिभिर्व्यभिचारिभावैर्मनोवाग्बुद्धिशरीरारम्भजन्मभिश्चानुभावैरनुबद्धः प्राप्तप्राप्यप्रकर्षावस्थो / विप्रलम्भशृङ्गाराख्यां लभते / स चतुर्धा-पूर्वानुरागो, मानः, प्रवासः, करुणश्च // तेपु प्रागसंगतयोः पूर्वानुरागः पुरुषप्रकाण्डे यथा. 'दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे / . हंस इव दर्शिताशो मानसजन्मा त्वया नीतः // 176 // ' अत्र पुण्डरीकस्य महाश्वेतायां प्रागसंगतायां समुत्पन्नः संकल्परमणीयोऽभिलाषस्तदनाप्तावुक्तप्रकारेण प्रकृष्यमाणस्त्वया मे मानसजन्मा दूरं नीत इत्युत्तरकामावस्थया प्रकाश्यते // 1: ‘णवलइआपाहरं' क. दोलाविलाससमये 'जत्थ पलासलयाए जणेहि पइणाम पुच्छिआ जुवई / अकहन्ती णिहणिज्जइ णिअमविसेसो णवलया सा // ' देशीनाममाला. 2. 'तुहाए' क.ख. 3. 'भावश्च हावश्च' ख. 4. 'स' ख.