________________ 5 परिच्छेदः / सरखतीकण्ठाभरणम् / 575 द्रुतम्, विक्षोभितम्, ज्वलितम् , विकसितं चेते इत्यनुभावाः; आत करुणाविस्मयक्रोधमुदनुरूपाश्च कम्पाश्रुस्तम्भवैवर्ण्यरोमाञ्चादयः सात्त्विकाः, मोहविषादवितर्कोग्रताधृत्यादयो व्यभिचारिणश्वानुमीयमाना निष्पत्तिहेतवो भवन्ति / सोऽयं तुल्यकालबलोत्पत्तिकारणानां भयादिनिष्पत्तीनां रतौ संसर्गः संकर इत्युच्यते // रतिरूपेण रसप्रकर्षस्य हासो यथा'कोपो यत्र भृकुटिरचना निग्रहो यत्र मौनं . यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः / तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः // 10 // अत्र योषिति रोषाख्यरसान्तरतिरस्कारात्पुरुषे चान्यरागागतिप्रकर्षस्य हाँसोऽवसीयते। . रतिरूपेण हीनपात्रेषु रसाभासो यथा 'विक्किणइ माहमासम्मि पामरो पारडिं वइल्लेण / दिहिँ समुम्मुरे सामलीअ थणए णिअच्छन्तो // 11 // [विक्रीणीते माघमासे पामरः प्रावरकं बलीवर्दैन / दृष्टिं समुर्मुरे श्यामल्याः स्तनके नियच्छन् // ] . 1. 'चलितम्' क. 2. 'विकसितं च त' घ. 'विकसितमित्यनुभावाः' क. 3. विषादोदकोंग्रता' क. 'विषादामोंग्रता' ख. 4. 'भृकुटिरचना' घ. 5. 'यत्रान्योन्य' क. 6. 'चानुरागा-' ख., 'चान्यरागा' घ. 7. 'हासोऽवगम्यते" क.स. 8. 'पामरो पारणं वि इलेण' कः 'पामरो पारडिं बइल्लेण' ख. 'पामरो पाइडिं वालेण' मुद्रितगाथास०. 9. 'णिममुम्मुरे सामलीए थणए णिअच्छन्तो' क., 'णिद्धममुम्मुरविभ सामलीए थणो परिच्छन्तो' इति मुद्रितगाथास०, दिहिं समुम्मुरे सामलीए थणए णिअच्छन्तो' ख.