________________ 4 परिच्छेदः / सरखतीकण्ठाभरणम् / 467 गुणोत्प्रेक्षा यथा'पल्लविअं विअ करपल्लवेहिं पप्फुलिअं विअ णअणेहिं / फलिअं विअ पीणपओहरेहिं अजाए लावण्णम् // 105 // पल्लवितमिव करपल्लवाभ्यां प्रफुल्लितमिव नयनाभ्याम् / फलितमिव पीनपयोधराभ्यामा या लावण्यम् // ] अत्र करपल्लवादिरूपेणान्यथावस्थितस्याङ्गलावण्यलक्षणस्य यदेतत् पल्लवितत्वादिरूपेणान्यथोत्प्रेक्षणं सेयमुत्प्रेक्षा गुणोत्प्रेक्षेति भवति / पल्लविअमित्यादि / विवृतेयं समाध्यलंकारे / अत्र सौन्दर्यस्य गुणस्य पल्लवितत्वादिना कल्पनं गुणोत्प्रेक्षा // क्रियोत्प्रेक्षा यथा'सेनागजाः खकरपुष्करलेखनीभि गण्डस्थलान्मदमषीं मुहुराददानाः / मन्ये नरेन्द्र तव तोयधितीरताली पत्रोदरेषु विजयस्तुतिमालिखन्ति // 106 // अत्र सेनागजानां गण्डस्थलेभ्यो लेखन्याकारैः करैर्मषीरूपस्य मदपयसो यदादानम् , यश्चास्य तीरतालीपत्रोदरेषु महावर्णतया निक्षेपः स उक्तरूपेणान्यथोत्प्रेक्ष्यत इति सेयमुत्प्रेक्षा क्रियोत्प्रेक्षा भवति / सेनेत्यादि / हे नरेन्द्र, सेनागजास्तव विजयस्तुतिमालिखन्तीति मन्ये / कीदृशाः / स्वकराणां हस्तिहस्तानां यानि पुष्कराण्यप्राणि तान्येव लेखन्यः कोप इति ख्यातास्ताभिर्गण्डस्थलात् मदमेव मषी वारंवारमाददाना गृह्णन्तः / कुत्र लिखन्तीत्यत आह-समुद्रतीरतालपत्रमध्येषु / मन्येशब्द उत्प्रेक्षाव्यञ्जकः / 'पुष्करं करिहस्ताग्रे' इति विश्वः / न च लिखेः कुटादिपाठात् ङित्त्वे गुणाभावे लिखनीति स्यादिति वाच्यम् / 'रद विलेखने' इति निर्देशेन ङित्त्वविधेरनित्यत्वबोधनात् / अत एव 'लेखनीकृतकर्णस्य कायस्थस्य न विश्वसेत् / ' इत्यादिप्रयोगाः / 'लेखनी . 1. मूलसंमतस्तु 'पल्लव' इति पाठः. 2. भाषान्तरशब्दोऽयम्.