________________ 2 परिच्छेदः।] सरखतीकण्ठाभरणम् / पदाधिक्यं तथाप्याद्यपदार्थानुरोधेन समुच्चीयमाननिषिध्यमानार्थानुरजकत्वेन संबोध्यमानार्थानुयायितया चकारनकारयोस्तवेति च तत्पादावयवरूपा एवेति तदसत्कल्पमेव / तथा च षड्भ्यः पदत्रय उपादीयमाने सप्तदशाक्षरायां जातौ यथासंख्यानुरोधेनाद्येऽर्धे प्रस्ताररचनाक्रमेण दश विकल्पाः, तृतीयचतुर्थयोश्च पादयोस्तावन्तस्तावन्त एवेति दशभिराहतैर्दशभिः शतम् / शतेन चाहतैर्दशभिः सहस्रं तर्णकाः श्लोकाः समुत्पद्यन्त इतीयं सहस्रधेनुः // ..., . अयुतधेनुर्यथा_ 'क्रिये जयसि जम्भसे सृजसि जायसे त्रायसे स्तुषे मृषसि मृष्यसे हृषसि पीयसे प्रीयसे / स्तुषे मृषसि होडसे कुटसि गल्भसे क्लीबसे हुषे हरसि रज्यसे रजसि राजसे भाजसे // 341 // ' एषा तु पदविच्छेदिन्येव धेनुः क्रियापदैः। संबोधनाग्रगैदृष्टासाभिः श्लोकायुतप्रमः // 119 // क्रिये इति / हे क्रिये कर्मन् / 'मिष स्पर्धायाम्', 'पीङ् पाने', 'मृड सुखने' तुदादो, 'होड़ अनादरे', 'कुड़ संहारे', रज्यसे आसजसि / रजसि मत्सरयसि / राजसे शोभसे / भ्राजसे जाज्वल्यसे। एषेति / इह पृथ्वीनामनि छन्दसि षड्भ्यः संबोधनानुगे पदचतुष्टये उपादीयमाने एकादशाक्षरायां जातौ प्रस्ताराल्पत्वेन यदि वा छन्दोभेदस्य शब्देनाप्रतिपादितत्वात् तद्भेदोऽप्युदाहरणीय इति तस्यामेव रथोद्धताभिधाने छन्दसि दशसु विकल्पेषु प्रतिपादं भवत्सु दशभिः शतं शतेन सहस्रं सहस्रेण च दशसहस्राणि तर्णकाः श्लोकाः समुत्पद्यन्ते इतीयमयुतधेनुः॥ लक्षधेनुर्यथा'दुर्गे भद्रेप्सुभद्रेऽदिति सुरभिदिते सैहिके गौरि पद्मे ..... . नित्ये हृद्ये वरेण्ये कलिकमलिकले कालिके चण्डि चण्डे / धन्ये पुण्ये शरण्ये शचि शबरि शिवे भैरवे राज्ञि सन्ध्ये / / छाये माये मनोज्ञेऽवनि जननि जये मङ्गले धेहि शं नः // 342 // '