________________ ॥श्रीः // परमारवंश्यो भोजदेवः। परमारवंश्यानां प्राचीनशिलालेखादिभिः, परिमलापरनामधेयपद्मगुप्तरचितानक्साहसाङ्कचरितात् काव्याच्चैवं ज्ञायते यदेतद्वंशीयमूलपुरुषो वासिष्ठादग्निकुण्डादर्बुदाचलपर्वते प्रादुरासीदिति / सरस्वतीकण्ठाभरणेऽपि नायकगुणेषु पुंसो महाकुलीनत्वोदाहरणे श्रीभोजदेवः 'खवंशोत्पत्तिमेवमुल्लिलेख 'वासिष्ठैः सुकृतोद्भवोऽध्वरशतैरस्त्यग्निकुण्डोद्भवो भूपालः परमार इत्यधिपतिः सप्ताब्धिकाञ्चेर्भुवः / अद्याप्यद्भुतहर्षगद्दगिरो गायन्ति यस्योद्भटं विश्वामित्रजयोर्जितस्य भुजयोर्विस्फूर्जितं गुर्जराः॥' सोऽयं परमारवंशोऽग्निकुलत्वेनात्मानं ख्यापयति / परमाराः, प्रतीहाराः, चालुक्याः, चाहमानाश्चेति चतुर्विधाः क्षत्रिया नानाशाखासु विभक्ताः खमग्निवंशोद्भवं मन्यन्ते / यद्यपि परमाराणीमेवाग्निवंशोद्भवत्वं सिध्यति यतो विविधेषु शिलालेखेषु चालुक्यादीनां सूर्यवंशोद्भवत्वं वर्णितम् / तथापि पृथ्वीराजरासोनाम्नि डिङ्गलाख्यभाषाग्रन्थे चतुर्विधा अप्येते क्षत्रिया अग्निवंश्यत्वेन वर्णितास्तथैवाधुना प्रसिद्धाश्च / 1. 'भरत्यूर्वीध्रः प्रतीच्यां हिमगिरितनयः सिद्धदाम्पत्यसिद्धः - स्थानं च ज्ञानभाजामभिमतफलदोऽखर्वितः सोऽर्बुदाख्यः / विश्वामित्रो वसिष्ठादहरत बलतो यत्र गां तत्रभावा जज्ञे वीरोऽग्निकुण्डाद्रिपुबलनिधनं यश्चकारक एवं // . मारयित्वा परान् धेनुमानिन्ये स ततो मुनिः / उवाच परमाराख्यः पार्थिवेन्द्रो भविष्यसि / ' एपिमाफियाइण्डिकाप्रथमपुटके पक्षमभागः-उदयपुरमशतिः। 2. नवसाहसाचरितकाम्येऽप्येकादशे सर्गे- .