________________ 'मधुविकचसितोत्पलावतंसं' पृ० 338 इत्यादि पद्यं सुभाषितावलौ मेण्ठनाना प्राप्यते / क्षेमेन्द्रः सुवृत्ततिलके हयग्रीववधस्य प्रथमं पद्यमेवमाचख्यौ- 'आसीदैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः। प्रथयन्ति बलं बाह्वोः सितच्छत्रस्मिताः श्रियः // ' राजतरङ्गिण्यां तृतीये तरङ्गे कहणपण्डितः कविमेनं मातृगुप्तकालिकं कथयति / मातृगुप्तश्च विक्रमादित्यकाले समभवदित्यस्य पञ्चमशतकोत्पन्नत्वं सिध्यति / यशोवर्मा-'यत्त्वन्नेत्रसमानकान्ति' पृ० 412 / 725 इत्यादि पद्यं क्षेमेन्द्रस्य सुवृत्ततिलके यशोवर्मनाम्रोल्लिखितम् / 'कृतककुपितैर्बाष्पाम्भोभिः' पृ० 696 .इत्यादि च पद्यं सुभाषितावलौ यशोवर्मण एव / सोऽयमष्टमशताब्द्यां कान्यकुब्जेश्वर आसीत् / . राजशेखरः-बालरामायणनाटकस्य, विद्धशालभञिकाया नाटिकायाः, कर्पूरमजरीनामकसष्टकस्य प्रचण्डपाण्डवापरनामकबालभारतनाटकस्य, काव्यमीमांसाख्यसाहित्यग्रन्थस्य च रचयिता यायावरीयः प्रसिद्धः कविः ख्रिस्तीयदशमशतकप्रारम्भ महेन्द्रपालनामकभूपतेः सभायामासीत् / भोजदेवेन बालरामायणनाटकात् 5 पञ्च पद्यानि, विद्धशालभजिकायाश्च पद्यत्रयमुदाहृतं खालंकारग्रन्थे / रुद्रटः-काव्यालंकारस्य रचयितालंकारिकः कविर्भोजदेवात्प्राचीनः / 19. एकोनविंशतिपद्यान्युदाहृतानि ग्रन्थादस्य भोजदेवेन / लक्ष्मीधरः-'कम्पन्ते कपयो भृशंः पृ० 316 इत्यादि पद्यं शार्ङ्गधरपद्धती लक्ष्मीधरनाम्ना प्राप्यते। वामनः-काव्यालंकारसूत्रकर्ता प्रसिद्धः काश्मीरको विद्वान् ख्रिस्ताब्दीयनवमशतकान्नार्वाचीनः / यतोऽस्य ध्वन्यालोकलोचने नामोपलभ्यत इति / 22 द्वाविंशतिधोदाहृतानि भोजदेवेनास्य ग्रन्थे प्राप्यमाणानि पद्यानि / वाक्पतिः-गौडवहो नामकः प्राकृतकाव्यकर्ता / गोडवहो काव्यात् उद्धृता उव्वरह दइ अगदि याह' पृ० 576 इत्यादि गाथा समुदाहृता भोजदेवेन / कवेरस्य यशोवर्मराज्यकालः पञ्चमशताब्दी ख्रिस्तीया कालोऽवगन्तव्यः / विकटनितम्बा-सेयं प्रसिद्धा कवयित्री / 'किं द्वारि दैवहतके' पृ० 162, 709, 418 इत्यादि पद्यं त्रिधोदाहृतं भोजदेवेन / समयोऽस्या अद्याप्यनिश्चितः /