________________ (71) तिरसस्तियति / 3 / 2 / 124 / * अकारादौ क्लीबन्तेऽञ्चतौ परे तिरस्शब्दस्य तिरि इत्यादेश: स्यात / तिर्यङ तिर्यचौ तिर्यन्चः / तिर्यचं तिर्यचौ। शसादौ खरे तु अचश्चत्वे अकारादेरञ्चतेरभावेन तिर्यादेशाभावाद् तिरश्वः। तिरश्चा तिर्यग्भ्यां तिर्यग्भिः / तिरश्चे तिर्यग्भ्यां तिर्यग्भ्यः / / तिरश्चः तिर्यग्भ्यां तिर्यग्भ्यः / तिरश्चः तिरश्वोः तिरश्चाम् / तिरश्चि तिरश्चोः तिर्यक्षु / सम्बोधनं प्रथमावत् / अस्यापि अर्चायां तु सर्वत्र तिर्या देशेन प्रत्यवद्गाणि / अमुम् अञ्चतीति विग्रहे अदस्+अच् इति स्थिते सर्वादिविष्वग्देवाड् डद्रिः कव्यञ्चौ / 3 / 2 / 122 / सर्वादिविष्वग्देवशब्देभ्यः परो डद्रिः स्यात क्विबन्तेऽञ्चतावुत्तरपदे परे / डित्त्वादन्त्यस्वरादेर्लोपे अदद्रि+अच् इति स्थिते यत्त्वे अदद्रयच्+सि इति स्थिते. ... वा द्रौ / 2 / 1 / 46 / अदसोऽद्रावन्ते सति दकारस्य मकारो वा स्यात् / अत्र द्वौ दकाराविति रूपचतुष्टयम् / मादुवर्णोऽनु / 2 / 1 / 47 / . . अदसः सम्बन्धिनो मकारात परस्य वर्णमात्रस्यासन्न उवर्णः स्यात् / अनु कार्यान्तरात् पश्चाद् / शेषं प्रत्यच्वत् साधनीयम् /