________________ (59) मिति भवत्येव / प्रियचतुरि प्रियचतुरोः प्रियचतुषु / सम्बोधने सौ परे ' उतोऽनडुच्चतुरो वः / इति वादेशे हे प्रियचत्वः प्रियचवारौ हे प्रियचत्वारः // नकारान्तो राजनशब्दः-राजन्+सि इति स्थिते / 'नि दीर्घः / इति दीर्धे से कि नाम्नो नोऽनह्नः / 2 / 1 / 91 / पदान्ते वर्तमानस्य नाम्नो नकारस्य लुक् स्यात् , स चेदह्नः शब्दस्य न स्यात् / राजा राजानौ राजानः / राजानं राजानौ। राजन +शस् इति स्थिते अनोऽकारस्य लुकि ' तवर्गस्य-'इत्यादिना नो नत्वे झोः संयोगे ज्ञवे राज्ञः / राज्ञा राजभ्यां राजभिः / राज्ञे राजभ्यां राजभ्यः / राज्ञः राजभ्यां राजभ्यः / राज्ञः राज्ञोः राज्ञाम् / ' ईडौ वा ' राज्ञि राजनि राज्ञोः राजसु / नामन्त्र्ये / 2 / 1 / 92 / आमन्व्यार्थे वर्तमानस्य नाम्नो नस्य लुग् न स्यात् / हे राजन् हे राजानौ हे राजानः // नकारान्तो यज्वन्शब्दः- यज्वा यज्वानौ यज्वानः / यज्वानं यज्वानौ / न वमन्तसंयोगात् / 2 / 1 / 111 / - वकारान्ताद् मकारान्ताच्च संयोगात् परस्यानोऽम्य लुग्न स्यात् / रज्जनः / यज्वना यज्वभ्यां यज्वभिः / यज्वने यज्वम्यां