________________ ( 410) न्याये " तीर्थ "-स्थितिमुपगतः कालिकाता- नगर्यो "वैशारद्य" प्रथनमपि सम्पादितो "ब"-विज्ञैः // [24] श्रीमद्गुरूणां कृपया प्रभूतया ___"प्रवर्तकत्वे " विनियोजितो यकः / स्वबन्धु-वात्सल्यमपि 'स्फुरत्तरं व्यधाद् " उपाध्याय" पदान्वितं च यम् // [25] सतामनुचरः सोऽहमेतद् बालक-चापलम् / यथाशक्ति शुभं कार्यमित्यभिप्रायतो व्यधाम् // (चतुर्भिः कलापकम् ) - [26] जानाम्यहं व्याकरणस्य निर्मितिः काठिन्यपूर्णा, तदपीह चेष्टितम् / व्युत्पत्तिसिद्धयै सरलाध्वयोजनाप्रादुष्चिकीर्षावशतो ममाभवत् // [27] दोषान् समीक्षा-सुलभान् विलोक्य संशोधयिष्यन्ति कृपार्दचित्ताः।