________________ तृ-स्वस-नप्तृ-नेतृ-क्षत्तृ-होतृ-पोतृ-प्रशास्त्रो घुट्यार / 1 / 4 / 38 / तृ इति तच्-तृनोर्ग्रहणम्, तदन्तस्य स्वस्त्रादेश्व ऋतः स्थाने घुटि परे आर् आदेशः स्यात् / कर्तारौ कर्तारः / कर्तारम् कर्तारौ कर्तृन् / का कर्तृभ्यां कर्तभिः / कर्ने कर्तृभ्यां कर्तृभ्यः / कर्तुः कर्तृभ्यां कर्तृभ्यः / कर्तुः कर्बोः कर्तृणाम् / कर्तरि कोः कर्तषु। हे कर्तःकर्तारौ कर्तारः / एवं नप्ता नप्तारौ नप्तारः। नेष्टा नेष्टारौ नेष्टारः। क्षत्ता क्षत्तारौ क्षत्तारः / होता होतारौ होतारः / पोता पोतारौ पोतारः / प्रशास्ता प्रशास्तारौ प्रशास्तारः / इत्यादयः / क्रोष्टु+सि इति स्थिते / ..... - क्रुशस्तुनस्तच पुंसि / 1 / 4 / 91 / ... क्रुशः सम्बन्धिनस्तुनः शेषे घुटि परे तचादेशः स्यात् / कोष्टा क्रोष्टारौ क्रोष्टारः / क्रोष्टारं क्रोष्टारौ क्रोष्टुन् / क्रोष्टु+टा इति स्थिते / टादौ स्वरे वा / 1 / 4 / 92 / टादौ स्वरादौ परे क्रुशस्तुनस्तृच् वा स्यात् / क्रोष्ट्रा क्रोष्टुना / क्रोष्टुभ्यां क्रोष्टुभिः / क्रोष्ट्रे क्रोष्टव / क्रोष्टुभ्यां क्रोष्टुभ्यः / क्रोष्टः क्रोष्टोः / क्रोष्टुभ्यां क्रोष्टुभ्यः / क्रोष्टुः क्रोष्टोः। क्रोष्ट्वोः। क्रोष्टु+ आम् इति स्थिते नित्यानित्ययोनित्यविधेर्बलीयस्त्वात् प्रथममेवामो 'नामि कृते कोष्टूनाम् / क्रोष्टरि क्रोष्टौ क्रोष्ट्वोः क्रोष्टुषु / सम्बोध