________________ ( 303) एभ्यः पराद् लषेः शीलादिसदर्थे घिनण भवति / विलॉषी। अपलाषी / अभिलाषी / 'संप्राभ्यां पराद् वसाद घिनण काच्यः। संवासी, प्रवासी। समत्यपाभिव्यभेश्वरः / 5 / 2 / 62 / एभ्यः पराञ्चरतेः घिनण् भवति / संचारी / अतिचारी। अपचारी / अभिचारी / व्यभिचारी। समनुव्यवाद् रुधः / 5 / 2 / 63 / एभ्यः .राद् रुधेः शीलादिसदथे घिनण् भवति / संरोधी / भनुरोधी / विरोधी / अवरोधी / 'विपूर्वाद् दहेः, परिपूर्वाद् देविमुहि-दहि-क्षिर-रटिभ्यश्च घिनण् वाच्यः' / विदाही, परिदेवी, . परिमोही, परिदाही, परिक्षेपी, परिराटी। , वादेश्च णकः / 5 / 2 / 67 / परिपूर्वात् क्षिप-रटिभ्यां वादेश्च णकः प्रत्ययो भवति। परिक्षेपकः / परिराटकः / परिवादकः / निन्द-हिंस-क्लिश-खाद-विनाशिव्या-भाषासूयानेक स्वरात् / 5 / 2 / 68 / ... एभ्यः शीलादिसदर्थे णकप्रत्ययो भवति / निन्दकः / हिंसकः / क्लेशकः / खादकः / विनाशकः / व्याभाषकः / असूयकः चकासकः / 'उपसर्गात् परेभ्यो देव-देवि-क्रुशिभ्यः शीलादिसदथें गको वाच्यः' आदेवकः, परिदेवकः, आक्रोशकः /