________________ गुरुदेव-पुष्पाञ्जलिः। काश्यां पुय्यां श्रममतितरां सर्व विद्याप्रदेशे कृत्वा विद्यालयमनुपमं स्थापयामासिवानं यः / वश्वा हिंसामपकरुणतां काशिराजस्य योगं लब्ध्वा शालां पशुहितकरीमप्युदयप्रतापः / / (2) समुत्पाद्य प्राज्ञान विशदमुपनीय प्रकटतां - पुराणां सदग्रन्थावलिमकृत विद्याप्रसरणम् / निराकृत्याऽऽरेका विविधविषयाः प्राच्यविदुषां तथा पाश्चात्यानां जिनपथविकासं व्यधित यः // गत्वाऽम:बा-मगधादिषु दरदरं .. देशेषु संविहितवानभिभाषणानि ! हिंसानिषेधविषये च सहस्रसंख्यान मांसाशिनोऽनयत यः पदवीं कृपायाः॥