________________ (245) हन्यताम् / अहन्यत / जघ्ने जघ्नाते जघ्निरे। घानिषीष्ट, यधिषीष्ट / घानितासे, हन्तासे / घानिष्यते, हनिष्यते / अघानिष्यत , अहनिष्यत / बिणवि घन / 4 / 3 / 101 / भिणवि परे हन्तेर्घनादेशो भवति। अघानि / अघानिषाताम्, * अद्यतन्यां वा त्वात्मने ' इति वा वधादेशे अवधिषाताम् पक्षे अहसाताम् / 'अकर्मका अपि सोपसर्गाः सकर्मका भवन्ति स्वामिना सुखमनुभूयते / लज्जाद्या धातवोऽकर्मकास्तदुक्तम्--- लज्जासत्तास्थितिजागरणं वृद्धिक्षयभयजीवितमरणम् / शयनक्रीडारचिदीप्त्यर्थ धातुगणं तमकर्मकमाहुः" // 1 // __लक्षणं त्वेतेषां फलव्यापारयोराधाराभेदेऽकर्मकत्वमाधारभेदे च सकर्मकत्वम् , तदुक्तम्--- " फलव्यापारयोरेकनिष्ठतायामकर्मकः / धातुस्तयोधर्मिभेदे सकर्मक उदाहृतः" // 2 // अन्यच" धातोरान्तरे वृत्तेर्धात्वर्थेनोफ्संग्रहात / . .. .......... ..प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया" // 3 ॥____एवं च लक्षणमभ्यूह्य सकर्मकत्वमकर्मकत्वं च धातोर्वेदिता व्यमिति /