________________ ( 226) अथ पदविभागप्रक्रिया। पराणि कानानशौ चात्मनेपदम् / 3 / 3 / 20 / सर्वविभक्तीनां पराणि नव नव वचनानि कानानशौ चात्मनेपदानि भवन्ति / ते, आते, अन्ते / से, आथे, ध्वे / ए, वहे, महे इत्यादयः / ___ इडितः कर्तरि / 3 / 3 / 22 / इदितो ङितश्च धातोः कर्तर्यात्मनेपदं भवति / एधते / एधमानः / शेते / शयानः / क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थहसोहबहचान न्योन्यार्थे / 3 / 3 / 23 / अन्यस्य कर्तुमिच्छाविषयीभूतायाः क्रियाया अन्येन करणं क्रियाव्यतिहारः / तदर्थाद् गतिहिंसाशब्दार्थहसवर्जिताद् हवहिभ्यां च, कर्तर्यात्मनेपदं भवति, न तु अन्योन्येतरेतरपरस्परशब्दयोगे। क्रियाव्यतिहारश्च व्यतिना द्योत्यते इति व्यती प्रयोक्तव्यौ / व्यतिलुनते / व्यतिहरन्ते / व्यतिवहन्ते / गत्यादिवर्ननं - किम् ? व्यतिसर्पन्ति, व्यतिहिंसति, व्यतिजल्पन्ति / अनन्योन्यार्थ इति किम् ?-परस्परं व्यतिलुनन्ति / /