SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ( 224) श्लाघासादनयोः रेख्यति / द्रवस् परिताप-परिचरणयोः द्रवस्यति / तिरस अन्तधौं तिरस्यति / अगद् नीरोगत्वे अगद्यति / उरस् बलार्थे उरस्यति / तरण गतौ तरण्यति / पयस् प्रसृतौ पयस्यति / सम्भूयस् प्रभूतभावे सम्भूयस्यति / अम्बर् सम्भर संभरणे अम्बर्यति, सम्भर्यति / आकृतिगणोऽयम् / इति कण्वादिगणः समाप्तः। अथ प्रत्ययमाला। कण्डूयितुमिच्छतीति सनि -- सन्यङः' इति एकस्वरस्याद्यवयवस्य द्वित्वे प्राप्ते कण्ड्वादेस्तृतीयः / 4 / 1 / 9 / कण्डवादेर्द्वित्वभाज एकस्वरोंऽशः तृतीय एव द्विर्भवति / कण्डूयियिषति / असूयियिषति / नाम्नो द्वितीयाद् यथेष्टम् / 4 / 1 / 7 / स्वरादेर्नामधातोत्विभाजो द्वितीयादारभ्यैकस्वरोंऽशो यथेष्टं द्विर्भवति / अश्वमिच्छति अश्वीयति / अश्वीयितुमिच्छति अशिश्वीयिषति, अश्वीयियिषति, अश्वीयिषिषति / अन्यस्य / 4 / 1 / /
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy