________________ ( 194) अनुनासिके च च्छ्वः शूट् / 4 / 1 / 108 / ... अनुनासिकादौ क्वौ धुडादौ च धातोः च्छ्वोर्यथासङ्ख्यं शूटौ भवतः / दुयूपति / दुयूषेत् / दुबूषतु / अदुघ्पत् / दुबूषाञ्चकार / दुबूषिता / दुबूषिष्यति / अदुयुषीत् / पक्षे दिदेविषति / दिदेविषेत् / दिदेविषतु / अदिदेविषत् / अदिदेविषीत् / ऋध इत् / 4 / 1 / 17 / _____ ऋधधातोः सादौ सनि परे ईर्तादेशो भवति / ईर्त्यति / ईर्सेत् / ईतुि / ऐत् i / ईञ्चिकार / ऐर्सीत् / इट्पक्षे अर्दिधिषति / आर्दिधिषीत् / भ्रस्ज्–बिभक्षति, बिभ्रक्षति, विभर्जिपति, विभ्रजिषति / दम्भ. दम्भो धिप धीप् / 4 / 1 / 18 / दम्भेः सादौ सनि धिप-धीपो भवतः / धिप्सति, धीप्सति / धिप्सेत् , धीप्सेत् / धिप्सतु, धीप्सतु / अधिप्सत्, अधीप्सत् / अधिप्सीत् , अधीप्सीत्। पक्षे दिदम्भिवति / दिदम्भिषेत् / दिदम्भिषतु / अदिदम्भिषत् / अदिदम्भिषीत् / श्रि-शिश्रीषति-ते, शिश्रयिषति–ते / यु-युयूषति, यियविषति। उर्ण-प्रोणुनूषति-ते, प्रोणुनविपति-ते, प्रोणुनविषति-ते / भृ-बुमूर्षति-ते, विभरिषति–ते / अबुभूर्षीत् , अविभरिषीत् / ज्ञप्ज्ञप्यापो ज्ञीपीप् न च द्विः सि सनि / 4 / 1 / 16 / ज्ञप्--आफ्धातोः सादौ सनि परे यथासङ्ख्यं ज्ञीपीपौ भवतः, न च द्विस्वम् / ज्ञीप्सति-ते / ज्ञीप्सेत् / ज्ञीप्सतु / अज्ञीप्सत् /