________________ (188) घटादीनां णौ हस्वो भवति, भिणम्परे तु वा दीर्घः / ‘वटयति / अनीघटत् / जिपरे अघाटि, अघटि / घाट घाटम् , बर्ट घटम् / व्यथयति / अविव्यथत् / अव्याथि, अव्यथि / / . कगेवनूजनैजपनस्राः / 4 / 2 / 25 / / एषां णौ ह्रस्वः, भिणम्परे तु वा दीर्घो भवति / कगयति / अचीकगत् / अकागि, अकगि / कागं कागम् , कगं कगम् / वनयति / अवीवनत् / अवानि, अवनि / जनयति / अजीजनत् / अजानि, अजनि / जानं जानम् , जनं जनम् / अमोऽकम्यमिचमः / 4 / 2 / 26 / अमन्तस्य धातोः णौ परे हम्वो भवति, भिणम्परे तु वा दीर्घः, न तु कम्यमिचमीनाम् / रमयति / अरीरमत् / अरामि, अरमि / कम्यमिचमीनां वर्जनात् कामयते / आमयति / चामयति, आचामयति / अचामि / चामं चामम् / पर्यपात् स्खदः / 4 / 2 / 27 / / आभ्यामेव परस्य स्खदेः णौ ह्रस्वो भवति, जिणम्परे तु वा दीर्घः / परिस्खदयति / पर्यस्खादि, पर्यस्खदि / अपस्खदयति / एवमदर्शनार्थे शमः / शमयति / अशामि, अशमि / अशीशमत् / अपरिवेषणार्थस्य यमोऽपि / यमयति / अयीयमत् / अयामि, अयमि / मारणतोषणनिशानेष्वर्थेषु ज्ञाधातोरपि / ज्ञपयति / अजिज्ञपत् / ज्ञापं ज्ञापम् , ज्ञपं ज्ञपम् / अज्ञापि, अज्ञपि /