________________ (26) इत्यनेन विसर्गे सति जिनः इति सिद्धम् / द्वित्वविवक्षायां जिन औ -जिनौ / बहुत्वविवक्षायां जिन जस् इति स्थिते, जकारो जसीति विशेषणार्थः / जिन अस् लुगस्यादेत्यपदे / 2 / 1 / 113 / ____ अपदादावकारे एकारे च परेऽकारस्य लुक् स्याद् / इति अकारस्य लुचः प्राप्तौ। . ___ अत आः स्यादौ जस्भ्याम्ये / 1 / 4 / 1 / स्यादौ जसि भ्यामि यकारे च परेऽकारस्याकारः स्यात् / इत्यनेन बाधनादकारस्य आकारे कृते दीघविसौं जिनाः / द्वितीयैकवचने जिन अम् इति स्थिते समानादमोऽतः / 1 / 4 / 46 / समानात् परस्यामोऽकारस्य लुक् स्याद् / जितम् , जिनौ / बहुत्वविवक्षायां जिन शस् इति स्थिते शसोऽता सश्च नः पुंसि / 1 / 4 / 49 / / शस्बन्धिनोऽकारेण सह पूर्वसमानस्यासन्नो दीर्वादेशः स्याद्, तत्संनियोगे च पुंलिङ्गविषये शसः सकारस्य नकारादेशः स्याद् / जिनान् / तृतीयैकवचने जिन टा इति स्थिते ___टाङसोरिनस्यौ।।४ / 5 / अकारात् परयोः स्याद्योः टाङसोर्यथासंख्यमिनस्यौ स्याताम् /