________________ ( 150) अथ रुधादिगणः। पानुबन्धा रुधादयः / रुबॅपी आवरणे / आवरणं व्यापित्वम् / रुधा स्वराच्छ्नो नलुक् च / 3 / 4 / 82 / .: रुधादीनां स्वरात् परः कर्तरि विहिते शिति नो भवति, तंद्योगे च प्रकृतेर्नो लुक् च यथासम्भवम् / शकारः शिकार्यार्थः / ङित्त्वाद् गुणाभावे नकारस्य णकारे तकारस्य च धकारे धातोर्धकारस्य दकारे रुणद्धि / अविति शिति ‘नास्त्यो क्' इति अकारस्य लुकि रुन्द्धः / ननु अत्र णत्वं कथं न ? उच्यते 'नां धुड़र्गेऽन्त्योऽपदान्ते' इत्यत्र ‘म्नां ' इति बहुवचनत्वेन णत्वस्याप्यपवादभूतमिदं सूत्रमिति ज्ञाप्यते, तेनानेन नस्य न एव / रुन्धन्ति / रुणत्सि रुन्धः रुन्ध / रुणद्मि रुन्ध्वः रुन्ध्मः / रुन्धे रुन्धाते रुन्धते / रुन्त्से रुन्धाथे रुन्द्ध्वे / रुन्धे रुन्ध्वहे. रुन्ध्महे / रुन्ध्यात् रुन्ध्याताम् रुन्ध्युः / रुन्ध्याः रुन्ध्यातम् रुन्ध्यात / रुन्ध्याम रुन्ध्याव सन्ध्याम / रुन्धीत रुन्धीयाताम् रुन्धीरन् / रुन्धीथाः रुन्धीयाथाम् रुन्धीध्वम् / रुन्धीय रुन्धीवहि रुन्धीमहि / रुणधु रुन्धात् रुन्धाम् रुन्धन्तु / रुन्धि, रुन्धात् रुन्धम् रुन्ध / रुणधानि रुणधाव रुणधाम / रुन्ताम् स्न्धाताम् रुन्धताम् / रुन्तस्व रुन्धाथाम् रुन्द्वम् / रुणधै रुणधावहै रुणधामहै। अरुणत् अरुन्धाम् अरुन्धन् / सेोपे धस्य च