________________ (21) रः कंखपफयोः(क-पौ। 1 / 3 / 5 / “पदान्ते रेफस्यरक पौ यथासंख्यं वा स्यातां कल-पफयोः परयोः / कर+करोति-क)(करोति, पक्षे विसर्गः कः करोति; एवं कर+खनति-क(खनति, कः खनति; कर+पचति-कपचति, कः पचति; कर+फलति-क-फलति, कः फलति / कस्+साधुः अत्र 'सोरुः' इत्यनेन रुत्वे क+साधुरिति जाते रः पदान्ते विसर्गस्तयोः / 1 / 3 / 53 / पदान्ते वर्तमानस्य रेफस्य विसर्गः स्याद्, विरामेऽवोषे च परे / कः साधुः / वाचस्पत्यादयः संज्ञाशब्दाः निपातनात् सिद्धा भवन्ति वाचस्पतिः, बृहस्पतिः दिवस्करः, तत् शब्दस्य करे परे चौरार्थे वाच्ये तस्करः इत्यादयः। अह्नः / 2 / 1 / 74 / अहन्शब्दस्य पदान्ते रुरित्ययमादेशः स्याद् / स च परे सर्वत्रासन्-पूर्वत्र च स्यादिविधौ। दीर्धाणि अहानि यस्मिन् म दीर्घाहो निदावः / . रो लुप्यरि।२।१। 75 / अहन् शब्दस्य लुपि सत्यामरेफे परे पदान्ते र् इत्यन्तादेशः स्याद् / अहर्गणः, अहरधीते / अरीति किम् / अहोरूपम, अहोरांत्रम्, अहोरथन्तरमित्यादौ रेफादेशाभावाद् रूले उत्वे च कृते 'अ ' इत्यादिनौत्वे कृते रूपाणि सिध्यन्ति /