________________ - अघोषे परे शिड्वर्जस्य धुटः प्रथमः स्याद् / अनेन प्रथमछकारस्य चत्वे कृते तवच्छत्रमिति सिद्धम् , एवं इच्छति गच्छती स्यादयो ज्ञेयाः। . अनाङ्माको दीर्घाद् वा च्छः। 1 / 3 / 28 / आङ्माङ्वर्जदीर्घात् परस्य छकारस्य द्वे रूपे वा स्याताम् / कन्या छत्रम्-कन्याच्छत्रम्, पक्षे एवम् / अनाङमाडिति किम् / आच्छाया, माच्छिदत् इत्यादौ नित्यमेव / तौ मुमो व्याने स्त्रौ / 1 / 3 / 14 / मोर्मु इत्यागमस्य मकारस्य पदान्तस्थस्य च मकारस्य व्यब्जने परे परव्यञ्जनस्यैव स्वसंज्ञावनुस्वारानुनासिकौ क्रमेण स्याताम् / चंक्रम्यते, चक्रम्यते; त्वंकरोषि, त्वङ् करोषि, स्वं पचसि, त्वम्पचसि; संयन्ता, सय्यन्ता; संवत्सरः, सव्वत्सरः; त्वं लासि, त्वल्लाँसि / म्नां धुवर्गेऽन्त्योऽपदान्ते / 1 / 3 / 39 / अपदान्ते वर्तमानानां मकारनकाराणां धुसंज्ञके वर्गे परे तस्यैव स्वोऽन्त्यः स्याद् / गम्+ता-गन्ता; शन्+किता-शंकिता। शिड्हेऽनुस्वारः। 1 / 3 / 4 / अपदान्तस्थानां मकारनकाराणां शिटि हे च परेऽनुस्वारः स्याद् कम्+स:-कंसः; यशान्+सि-यशांसि /