________________ (81) शदेः शिति / 3 / 3 / 41 / शिद्विषयाच्छदेः कर्तर्यात्मनेपदं भवति / ' श्रौतिकृवु-' शी. यते / शीयेत / शीयताम् / अशीयत / शशाद शेदतुः शेदुः / शेदिय / शद्यात् / शत्ता / शत्स्यति / अशत्स्यत् / अशदत् / बुध अवगमने / बोधति / बुबोध / अबोधीत् / टुवमू उद्दिरणे / क्मति / जभ्रमवमत्रसफणस्यमस्वनराजभ्राजधासभ्लासो वा / 4 / 1 / 26 / एषां स्वरस्यावित्परोक्षासेट्यवोरा भवति, न च द्विः / बवाम ववमतुः, वेमतुः ववमुः, वेमुः / वेमिथ, ववमिथ वेमथुः, ववमथुः वेम, ववम / ववाम, ववम वेमिव, ववमिव वेमिम, ववमिम / अवमीत् / भ्रमू चलने / ' भ्रासम्लासभ्रमक्रम-' इत्यादिना भ्राम्यति, भ्रमति / बभ्राम बभ्रमतुः, भ्रमतुः बभ्रमुः, भ्रमुः / बभ्रमिथ, भ्रमिथ / अभ्रमीत् / क्षर सञ्चलने / क्षरति। अक्षारीत्। चल कम्पने / चचाल चेलतुः / अचालीत् / जल घात्ये / जनाल जेलतुः / अजालीत्, / टल ट्वल वैक्लव्ये / छल स्थाने / तस्थाल / अस्थालीत् / हल विलेखने / जहाल / अहालीत् / / णल गन्धे / ननाल नेलतुः नेलुः / अनालीत् / बल प्राणनधान्यावरोधयोः / अबालीत् / पुल महत्त्वे / पुपोल / अपोलीत् / कुल बन्धुसंस्त्यानयोः कोलति / चुकोल / पल फल शल