________________ (78) युद्भ्योऽध-न्याम् / 3 / 3 / 44 / द्युतादिभ्योऽद्यतनीविषये कर्तर्यात्मनेपदं वा भवति / अद्योतिष्ट अद्योतिषाताम् अद्योतिषत / पक्षे - लदिद्युतादि-' इत्यादिना परस्मैपदेऽङि अद्युतत् अद्युतताम् अद्युतन् / रुचि अभिप्रीत्यां च / रोचते / रुरुचे / अरोचिष्ट, अरुचत् / घुटि परिवर्तने / घोटते / जुघुटे / अघोटिष्ट, अघुटत् / रुटि लुटि लुठि प्रतिघाते / रोटते / रुटे / अरोटिष्ट, अरुटत् / लोटते / लुलुटे। अलोटिष्ट, अलुटत् / लोठते / लुलुठे / अलोठिष्ट, अलुठत् / श्चिताङ् वरणे / श्वतते / शिश्विते / अश्वेतिष्ट, अश्वितत् / जिमिदाङ् स्नेहने / मेदते / मिमिदे / अमेदिष्ट, अमेदत् / जिश्विदाङ् निविदाङ् मोचने च / चिश्विदे / अश्वेदिष्ट, अश्विदत् / सिविदे / अस्वेदिष्ट, अस्विदत् / शुभि दीप्तौ / शोभते / शुशुभे / अशोभिष्ट, अशुभत् / क्षुभि सञ्चलने / क्षोभते / चुक्षुभे / अक्षोभिष्ट, अक्षुभत्। णभि तुभि हिंसायाम् / नभते / नेभे नेभाते नेभिरे / अनभिष्ट, अनभत् / तोभते / तुतुभे / अतोभिष्ट, अतुभत् / स्रभूङ् विश्वासे। सम्भते / सत्रम्भे / अस्त्रम्भिष्ट, अनभत् / भ्रंशू ख्रसूङ अवस्रंसने / भ्रंशते / बभ्रंशे / अभ्रंशिष्ट, अभ्रशत् / स्रंसते / सांसे / अस्रंसिष्ट, अनसत् / ध्वंसूङ् गतौ च / ध्वंसते / दध्वंसे / अध्वंसिष्ट , अध्वसत् / अथ द्युतायन्तर्गणो वृतादिः। . वृतूङ वर्तने / वर्तते / वर्तेत / वर्तताम् / अवर्तत / ववृते /