________________ भमुञ्चिष्ट / पचुङ व्यक्तीकरणे पञ्चते / पपञ्चे / अपश्चिष्ट / एजुक् भ्रेजुङ भ्राजि दीप्तौ / एजते / एजाञ्चक्रे / एजाम्बभूवे / / अस्तेः सि हस्त्वेति / 4 / 3 / 73 / अस्तेः सः सादौ प्रत्यये परे लुब् भवति, एति परे तु सो हः स्यात् / एजामाहे / एनिषीष्ट / एजिता / एजिष्यते / ऐनिष्यत / ऐनिष्ट / इजुङ् गतौ / इञ्जते / इञ्जाञ्चक्रे / इञ्जाम्बभूवे / इञ्जामाहे / इञ्जिषीष्ट / इञ्जिता / इञ्जिष्यते। ऐञ्जिष्यत / ऐञ्जिष्ट / ऋजि गतिस्थानार्जनोपार्जनेषु / अर्जते / आनृजे / आर्जिष्ट / ऋजुङ् भृजैङ् भन्ने / ऋञ्जते / आनृङ्गे / आख्रिष्ट / तिनि क्षमानिशानयोः क्षमायां ‘गुप्-तिजः '-इति तितिक्षते चेष्टि चेष्टायाम् / चेष्टते / अचेष्टिष्ट / एठि हेठि विबाधायाम् / एठते / एठाञ्चके / एठाम्बभूवे / एठामाहे / ऐठिष्ट / हेठते / निहेठे। अहेठिष्ट / मठुङ् कठुङ् शोके / मुठुङ पलायने / मुण्ठते / मुमुण्ठे। अमुण्ठिष्ट / अठुङ् पठुङ् गतौ / अण्ठते. आनण्ठे। आण्ठिष्ट / पण्ठते / पपण्ठे / अपण्ठिष्ट / हुडुङ पिडुङ संघाते / हिडुङ गतो च / हिण्डते / निहिण्डे / अहिण्डिष्ट / शडुङ् रुजायां च / शण्डते / शशण्डे / अशण्डिष्ट / तडुङ् ताडने / तण्डते / ततण्डे। अतण्डिष्ट / घिणुङ् घुणुङ् घृणुङ् ग्रहणे / घिण्णते / निघिण्णे / अघिण्णिष्ट / पणि व्यवहारस्तुत्योः / 'गुपौधूप-' इत्यादिनाऽऽयप्रत्ययः / अनुबन्धस्याशवि परे आयप्रत्ययान्ताभावपक्षे चरितार्थत्वाद् आयप्रत्यये सति आत्मनेपदं न भवति / पणायति / पणा-.