________________ (52) दिन्वति / दिदिन्व / अदिन्वीत् / जिन्वति / निजिन्व / . अजिन्वीत् / इयु व्याप्तौ / इन्वति / ऐन्वत् / इन्वाञ्चकार / इन्वाम्बभूव / इन्वामास। ऐन्वीत् / अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमनप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यालिङ्गनहिंसादहनभाववृद्धिषु / अवति / आव / अव्यात् / अविता / आगीत् / इति वान्ता धातवः / कश शब्दे / कशति / चकाश / कश्यात् / अकाशीत् , अकशीत् / मिश मश रोषे च / मेशति / मिमेश / अमेशीत् / शश प्लुतिगतौ / शशति / शशाश। अशाशीत् , अशशीत् / णिश समाधौ / नेशति / निनेश / अनेशीत् / दृशृं प्रक्षणे / 'श्रौतिकृयु'-इत्यादिना पश्यति / पश्येत् / पश्यतु / अपश्यत् / ददर्श ददृशतुः ददृशुः / ददर्शिथ पक्षे---- ____ अः सृजिदृशोऽकिति / 4 / 4 / 111 / / अनयोः स्वरात् परोऽदन्तो भवति धुडादौ प्रत्यये परे, न तु किति / दद्रष्ठ / दृश्यात् / द्रष्टा / द्रक्ष्यति / अद्रक्ष्यत् / अद्यतन्यां तु अपक्षे-- ऋवर्णदृशोऽङि / 4 / 3 / 7 / __ऋवर्णान्तानां दृशेश्च गुणो भवति अङि परे / अदर्शत् अदर्शताम् अदर्शन् / पक्षे अद्राक्षीत् / ‘धुहस्वाल्लुगनिटस्तथोः' इति सिन्लुकि अद्राष्टाम् / अद्राक्षुः / अद्राक्षीः अद्राष्टम् अद्राष्ट / अद्राक्षम् अद्राक्ष्व अद्राक्ष्म / दंशं दशने / दशति /