________________ (230) वा क्रियते अनेकमेकमेकधा वा करोति / 'एकादः ध्यममपि अनेकमेकमैकध्यं करोति / द्विषेर्धमत्रेधौ वा / 7 / 2 / 107 / प्रकारे वर्तमानाभ्यां द्वित्रिभ्यां विचाले च गम्ये एतौ वा भवतः। द्वैधम्, द्वेधा, द्विधा; त्रैधम् , त्रेधा, त्रिधा भुङ्क्ते / एक राशिं द्वौ करोति द्वैध, द्वेधा, द्विधा वा करोति / एवं त्रैध, त्रेधा,, त्रिधा। ... तद्वति धण् / 7 / 2 / 108 / प्रकारवति विचालवति चार्थे द्वित्रिभ्यां धण् भवति / द्वैधानि, त्रैधानि / वारे कृत्वस् / 7 / 2 / 109 / वारे वर्तमानात् संख्यार्थाद वारवति धात्वर्थे कृत्वस भवति / पौनःपुन्यं वारः / पञ्चवारं भुङ्क्ते पञ्चकृत्वो भुङ्क्ते / एवं षट्कृत्वः इत्यादि / द्वित्रिचतुरः सुच / 7 / 2 / 120 / वारेऽर्थे वर्तमानेभ्य एभ्यः सुच् भवति / द्विः, त्रिः, चतुमुंङ्क्ते। एकात् सकृच्चास्य / 7 / 2 / 111 / .... वारार्थादेकशब्दात् सुच् भवति, प्रकृतेश्च सव.दादेशः / एकत्रारमिति सकृद् भुङ्क्ते, करोति, गच्छति /