________________ ( 184) कौलेयकः श्वा / कुक्षौ भवः कौक्षेयकोऽसिः / ग्रीवायाँ भवो अवेयकोऽलङ्कारः / दक्षिणापश्चात्पुरसस्त्यण् / 6 / 3 / 13 / .. एभ्यः शेषेऽर्थे त्यण् भवति / दक्षिणस्यां दिशि भवो दाक्षिणात्यः / पश्चाद् भवः पाश्चात्यः / पुरो भवः पौरस्त्यः / निशब्दाद् वेऽथे, निस्शब्दाच गतेऽर्थे त्यच् वाच्यः / नित्य ध्रुवमित्यर्थः / वर्णेभ्यो निर्गतो निष्टयश्चण्डालः / ____ क्वेहामात्रतसस्त्यं च / 6 / 3 / 16 / एभ्यस्त्रतस्प्रत्ययान्तेभ्यश्च त्यच् भवति / क्व भवो जातो वा क्वत्यः / इह भवो जातो वा इहत्यः / अमा भवोऽमात्यः / तत्र भवस्तत्रत्यः / कुत आगतः कुतस्त्यः / ऐषमो-य:-श्वसो वा / 6 / 3 / 19 / एभ्यः प्राजितीये शेषे त्यच् वा भवति / ऐषमस्त्यम्, ऐषमस्तनम् / ह्यस्त्यम् , ह्यस्तनम् / श्वस्त्यम्, श्वस्तनम् / .शकलादेर्यजः / 6 / 3 / 27 / अस्माद् यान्तात् शेषेऽञ् भवति / शाकल्ये जातः शांकलः। वृद्धेऽः / 6 / 3 / 28 / वृद्धेनन्सात् शेषेऽम् भवति / दाक्षौ भवः दाक्षः / मवतोरिकणीयसौ / 6 / 3 / 30 /