________________ [1] श्रीविश्वनाथः शरणम् / म्ह खलु नानाविधभारतीप्रमाभास्वरे भारतेऽद्यावधि परमकरुणाकान्तस्वान्तैः परोक्षापरोक्षज्ञानगौरवाधरीकृतान्यप्रान्तजातविपश्चिजातैर्महामहिमशालिभिर्वाचस्पतिप्रतियोगिकसादृश्यानुयोगिभिर्विद्वद्वरिष्ठैः प्रणीता भूयांसो ज्यायांसो लघीयांसश्च शब्दशास्त्रारण्यविहरणमानसमनीषिकेसरिजनानन्दसन्दोहसम्मादकाः शब्दानुशासनग्रन्था अध्ययनाध्यापनविषयतामुपलभमानाः सर्वत्रैव प्रत्यक्षीक्रियन्ते / तेषु निखिलशास्त्रीयविषयान करकमलामलकवद् वीक्षमाणैः सुप्रतीतनामधेयैराहतमतावतंसभूतैः श्रीमद्धेमचन्द्राचार्यसूरिवय्यः सम्पादितः स्वोपज्ञबृहद्वृत्तिसमेतः सिद्धहेमनामको ग्रन्थः प्रायः सर्वान् नूतनानतिशेते / तस्य च तीक्ष्णबुद्धिवैमवैरपि दुरवगाहतया तत्प्रणीतलघुवृत्तेश्च सूत्रक्रमेण निर्मिततया सस्कृते प्रविविक्षूणां बालानां सुगमतया अशक्यबोधविषयत्वात् परमकारुणिकैः सकलशास्त्रनिष्णातस्वान्तः श्रीमन्मुनिप्रवरमङ्गलविजयः सकुतूहलं सम्पादितः सद्यः शब्दसाधुत्क्सम्पादकोऽल्पीयसा प्रयत्नेन हृदयग्राह्यः सिद्धहेमपयोनिधिदुग्धसारभूतोऽयं धर्मदीपिकामियो ग्रन्थोऽवश्यं संस्कृतसाहित्यसुमेरुशिखरारुरुक्षून् बालान्, स्वास्वादेनातितरां सन्तोषयेदित्याशास्ते . . काशीस्थविरलाविद्यालय-व्याकरणसं. 19.79 / साहित्य-न्यायप्रधानाध्याकः व्याकरणोपाध्यायः सभापतिशर्मोपाध्यायः