________________ (97) अथ अव्ययप्रकरणम्। अन्ययान्यलिङगकानि, यदुक्तम्सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु / वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् // 1 // चादयोऽसत्त्वे / 1 / 1 / 31 / . सत्त्वं लिङ्गसङ्ख्यावद् , लिङ्ग-सङ्ख्ये न विद्यते यस्मिन् तदसद् अद्रव्यम् / तस्मिन्नद्रव्ये वर्तमानाश्चादयोऽव्ययसंज्ञकाःस्युः। च वा ह अह एव एवं नूनं पृथग् विना नाना स्वस्ति अस्ति दोषा मृषा मिथ्या मिथस् अथ अथो यस् श्वस् उच्चैस् नीचैस् इति पादिः, आकृतिगणोऽयम्। स्वरादयोऽव्ययम् / 1 / 1 / 30 / स्वरादयः शब्दा अव्ययसंज्ञकाः स्युः / स्वर् अन्तर् प्रातर पुनर् भूयस् आहोस्वित् सह नमस्.ऋते अन्तरेण अन्तरा अलम् आराद् दूराद् भृशमित्यादिः / आकृतिगणोऽयम् / स्वरादीनां वाच्यरूपोऽर्थश्चादीनां च द्योत्यरूपोऽर्थः / अधण्-तस्वाद्याशसः। 1 / 1 / 32 / धण्वनितास्तसुप्रभृतयः शस्पर्यन्ता ये प्रत्ययास्तदन्तं नामान्ययं स्यात् / देवा अजुनतोऽभवन् , अर्जुनपक्षेऽभवन्नित्यर्थः / ततः