________________ 250 काव्यमाला। तेषां बाधः / तन्मध्ये च विरोधोऽनुप्रविष्ट इति सोऽपि तेन बाध्यत इति न कश्चिद्दोषः / एवमर्थालंकारसंकर उक्तः। शब्दालंकारसंकरस्तु कैश्चिदुदाहृतो यथा 'राजति तटीयममिहतदानवरासातिपातिसारावनदा / गजता च यूथमविरतदानवरा सातिपाति सारा वनदा // ' अत्र यमकानुलोमप्रतिलोमयोः शब्दालंकारयोः परस्परापेक्षत्वेनाजानिसंकर इति / एतत्तु न सम्यगावकम् / शब्दालंकारयोः शब्दवदुपकार्योपकारकत्वाभावेनाङ्गाङ्गिभावाभावात् / शब्दालंकारसंसृष्टिस्त्वत्र श्रेयसी / यथोदाहृतं पूर्वम् / यद्वा अत्र शब्दालंकारद्वयमेकवाचकानुप्रविष्टमिति तृतीयः संकरो ज्ञेयः / एवमेकः प्रकारो दर्शितो द्वितीयः प्रकारस्तु संदेहसंकराख्यः। यत्रान्यतरपरिग्रहे साधकं प्रमाणं नास्ति बाधकं वा प्रमाणं न विद्यते तत्र न्यायप्राप्तः संशय इति संदेहसंकरस्तत्र विज्ञेयः / यथा'यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः / सा चैवामि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते / ' .. सा भ्यनुज्ञानात्मप्रयोजनम् / तन्मध्य इति / श्लेषाद्वयतिरिक्तानामन्येषामलंकाराणां मध्य इत्यर्थः / दोष इति / सावकाशत्वापत्तिरूपः। कैश्चिदिति / काव्यप्रकाशकारादिभिः / उदाहृतमिति / कुसुमसौरभेत्यादिना / . यद्वेति / पक्षान्तरे / एकवाचकेति / य एव शब्दा यमकस्य वाचकास्त एव चित्रस्येति द्विवीय इत्यङ्गाङ्गिभावात् / साधकमिति / अनुकूलम् / न्यायप्राप्त इति /