________________ 154 काव्यमाला। प्रतीयते, तदायमनिष्टविधिराभासमानमाक्षेपाङ्गम् / स्मर्तव्या इत्यनेन गमननिवृत्तिरेवोपोद्वलिता / तस्मादयमपि प्रकार आक्षेपस्य समानन्यायतयाभिनवत्वेनोक्तः। आक्षेपे ईष्टनिषेधेऽनिष्टविधौ चानुपपद्यमानत्वाद्विरुद्धत्वमनुप्रविष्टम् / एतत्प्रस्तावेन विरोधगर्भोऽलंकारवर्गः प्रक्रियते / तत्रापि विरोघालंकारस्तावल्लक्ष्यते विरुद्धाभासत्वं विरोधः / . इह जात्यादीनां चतुर्णा पदार्थानां प्रत्येकं तन्मध्य एव सजातीयविजातीयाभ्यां विरोधिभ्यां संबन्धे विरोधः / स च समाधानं विना प्ररूढो दोषः / सति तु समाधाने प्रमुख एवाभासमानत्वाद्विरोधाभासः / तत्र जातिविरोधस्य जात्यादिभिः सह चत्वारो भेदाः। गुणस्य गुणा तस्मादित्यादिना / अभिनवत्वेनेति दण्ड्याद्यपेक्षया / तेन ह्यसौ 'इत्याशीर्वचनाक्षेपो यदाशीर्वादवर्मना / खावस्थां सूचयन्त्येवं प्रिययात्रा निषिध्यते॥' इत्युक्तेरसंभवतापि लक्षणेन लक्षितः। न पुनर्ग्रन्थकृदुपज्ञत्वेनैतद्व्याख्येयम् / 'विधिनिषेधाभ्यां प्रतिषेधविध्युक्तिराक्षेपः' इतीदृगेव हि श्रीभोजदेवेनाप्यस्य लक्षणं कृतम् / इदानीं विरोधस्य लक्षणमुपक्रमते-आक्षेप इत्यादिना / एतत्प्रस्तावेनेति / विरुद्धत्वानुप्रवेशानुगुण्येनेत्यर्थः / तत्रापीति / विरोधगर्भालंकारोपक्रमेऽपीत्यर्थः / तावदित्युपक्रमे / तत्र हि विरुद्धगर्भत्वस्य प्राधान्यम् / तदे. वाह-विरुद्धेत्यादि / तन्मध्य एवेति / जात्यादीनां गुणादय एव विजातीया गुणादीनामपि जात्यादय एव विजातीया ग्राह्याः, न पुनरन्ये यदृच्छादय इत्यर्थः / ननु विरोधस्य दोषत्वं वाच्यं प्रत्युतास्य कथमलंकारत्वमुच्यत इत्या-- शङ्कयाह–स चेत्यादि / समाधानमिति / वस्तुवृत्तपर्यालोचनालभ्यो विरोधप्रतीत्यनन्तरभावी नैतदेवमिति प्रत्ययरूपो बाधः / प्रमुख एवेति न पुनः 1. 'इष्टस्य' ख. 2. 'प्रतीयते' क. 3. 'तत्समाधाने तु' ख. ..