________________ 72 . . तस्य च भार्येन्दु........मती........पुत्रः गुणरत्नैकरोहणाचल: धर्मचटनगुममलयकीर्ति-सुधाधवलितसमस्तविश्ववलयो यशोदेवश्रेष्ठीतस्य च 'आम्बीति नाम्ना जनवत्सलाऽभूद, भार्या यशोदेवगृहाधिपस्य / यस्या: सतीनां गुणवर्णनाया माद्यैव रेखा क्रियते मुनीन्द्रः // तयोश्च पुत्रा उद्धरण आम्बीगवीरदेवाख्या बभूवुः / सोलीलोलीसोखीनामानश्च पुत्रिकाः सञ्जझिरे / अन्यदा च सिद्धान्तलेखनबद्धादरेण जिनशासनान्वरञ्जितचित्तेन यशोदेवश्रावकेण सिद्धान्तविचारपर्यायपुस्तिका लेखयामास / पूज्यश्रीविमलाख्यसूरिंगणभृच्छिष्यस्य चारित्रिणो योग्याऽसौ गणिचन्द्रकीर्तिविदुषो विद्वज्जनानन्दनी / शास्त्रार्थस्मृतिहेतवे परिलसज्ज्ञानप्रपा पुस्तिका भक्तिप्राश्चितयत्युपासकयशोदेवेन निर्मापिता // 14 // यावश्चन्द्ररवीनभस्तलजुषौ यावञ्च देवाचलो यावत्सप्तसमुद्रमुद्रितमही यावन्नभोमण्डलम् / यावत्स्वर्गविमानसन्ततिरियं यावच्च दिग्दन्तिनस्तावत् पुस्तकमेतदस्तु सुधियां व्याख्यायमानं मुदे // 1 // इति प्रशस्ति: समाप्ता।