________________ 67 जीतकल्प-पर्यायाः हमेयं सपक्ख-परपक्खमाई वा // 1 // योग्यं-नवम्, अतीतं-पुराणं, मूलं-स्तम्भादिकं / उत्तरं-वंशादिकं / सपक्षद्रव्यं जिनसत्कं, परपक्षद्रव्यं-तीर्थान्तरीयाणाम् इति गाथार्थ: / कदालिका हस्तिटगकः। जीतकल्पपर्यायाः यथा-आद्य त्रिषु स्कन्दकं छन्दः / 'जस्स मुहनिझरामयमयवसगंधाहिवासिया इव भमरा' इति / यन्मुखनिर्झरामृतमयवशगन्धाधिवासिता: साधवो भ्रमरा इव इत्यर्थः / 'विसेसाविसेसियावस्समि' त्ति विशेषावश्यके / 'अप्पत्तापत्तव्वत्ततितिणिय' त्ति / अपात्र-अप्राप्त-अव्यक्त-तिन्तिणिकादीनामित्यर्थः / तहिं वा अहिगरणभूए इति / पवुच्चंति जीवादओ पयत्था इतिशेषः / 'पढमं ठाणं दप्पी, दप्पो चिय तस्स वी भवे पढम' ति / दर्पः प्रथम स्थानं, तस्यापि प्रथमभेदो दर्प एव, ततः प्रथमे दर्पपदे व्रतषट्क-कायषट्क -अकल्पादिपट्कसञ्चारणेन अष्टादश गाथाः / अकल्पनिरालम्बादिपदेष्वपि प्रत्येकम् अष्टादश गाथा ज्ञेया इत्यर्थः / कल्पिकाया: दर्शनज्ञानादीनि चतुर्विशति: पदानि; तेषु प्रत्येकं व्रतषट्ककायषट्क-अकल्पादिषट्क सञ्चारणात् दर्शने अष्टादश गाथा: / एवं ज्ञाने अष्टादश गाथा: ततः सर्वेऽपि अष्टादशकाः चतुर्विशतिसङ्ख्या: भवन्ति / 'अणुमजिय तं सुओवएसेण' त्ति / विचिन्त्य / 'नक्खत्ते भे पीला' इति / नक्षत्रे श्रवणहस्तलक्षणे श्रुतं हस्तकृतं वा किञ्चित् स्यादित्यर्थः / 'सुक्के मासे' लघुमासे / 'एवं तावुग्घाए' इति लघूनि, अनुराते तु गुरूणि / 'छिदित्तु तयं भाण' इत्यादौ तत् स्थानं सञ्चिछद्य इत्यनेन छेदः प्रतिपादित:, गच्छंतु तवस्स साहुणो मूलं' इत्यनेन मूलं भणितम् 'अव्वावडा व गच्छे' अव्यावृता: गच्छे सन्तु इत्यनेन अनवस्थाप्यम् 'अब्बीया वावि विहरंतु अद्वितीया विहरन्तु इत्यनेन पारं