________________ नि:शेषसिद्धान्तविचार-पर्याये पदाधीते बाहुसनामा-भद्रबाहुस्वामी एतद्अधीतं मिणे-परावर्त्तयति, 'मिणे' अस्य व्याख्या पश्चार्द्धन यथा-'पियइ त्ति व अत्थपदे मिणइत्ति व दोवि अविरुद्धा' अर्थपदानि पिबति मिणइत्ति वा द्वौ एका! इत्यर्थ: / अगडसूया-अकृतश्रताः। भाष्ये-'सिण्हाइ परित्ताणं / / इत्यत्र सिण्हा-ओसा / 'गामहिसिमाईणं वालेह कयं गालणाइ अट्टाए वालेयं' इत्यादिकं सूत्रपाठान्तरस्य व्याख्यानमिदं सम्भाव्यते / भाष्ये-'अह सा हीरमाणं तु वट्टेउं जो उ दावर' इत्यर्थो यथा-सा हीरमाण-दीयमानं बट्टेड-परीसेउं परीसवणार्थमित्यर्थः ततो यो दापयेत् इत्यर्थः / 'भत्तट्टिओ व खमओ इयदिणे तासि होइ पट्टः वओ। चरिमे असद्धवं पुण होइ अभत्तटुमुजवणं' // इति गाथाथा यथा-पूर्वदिने भक्तार्थी भुक्तः खमओ-क्षपको वा सन् इत दिनेद्वितीयदिने भवति पट्टयको-तपःप्रारम्भकः / चरिमदिने पुनः अश्रद्धावान् उपोषितो भवति ततो अभक्तार्थ-सोपवासं उद्योतनकमेतदित्यर्थः। ‘पञ्चक्खागमसरिसो होइ परोक्खो वि आगमो जस्से' त्यादी आगम:-परिच्छेदः / 'नवपुवीयगंधहत्थी य' इत्यत्र गधहस्तिन इव गन्धहस्तिनः / 'अंबेव न छुब्भई खीर' ति / यथा अम्बिल मध्ये क्षीरं पतितं विनश्यति / न उ मइलिंति निसेजाइ पीठादिग्रहणे इत्यर्थः / निर्यवकैः-प्रतिजागरकैः / दुगुंछियं वा इगाइ सुराप्रवृतीत्यर्थः / 'पंचविहो ववहारी दुवालसंगस्स नवणीय' ति सार इति तात्पर्यम / 'नक्खत्ते भे पीला चउमासतवं कुणसु सुक्के' इत्यस्यार्थी यथा-यदि प्राणातिपातादीनां श्रवणेन-शब्देन हस्तकर्मणा वा पीडा जाता, तत: चतुर्मासतपः शुक-लघु कुरु इत्यर्थ: / अथ च श्रवणं नक्षत्रमपि हस्तोऽपि नक्षत्रं / 'तित्थोक्काली एत्थं वत्तव्वा होइ आणुपुवीए' इति तित्थुक्का(ग्गा)ली ग्रन्थविशेषः / 'धीरपुरिसपन्नत्तो