________________ श्रीजैनज्ञान-गुणसंग्रह यस्मादुर्गुणसंततिर्गतवती यस्य प्रपूतं वचो, यस्मिन् पङ्कजकोमले जनमनो भृङ्गोपमं लीयते // 2 // स श्रीवीरविभुभंवत्वसुखहत्तं दैवतं संश्रये, तेनाऽस्मि प्रभुणा सनाथगणनस्तस्मै नतिं संदधे / तस्मान्नास्ति परः प्रभादिनकरस्तस्याङ्घ्रियुग्मं स्तुवे, तस्मिन्नेव च कर्मदन्तिदलने शार्दूलविक्रीडितम् // 3 // अङ्गर्षिनवभूवर्षे, पादलिप्तपुरे वरे। कल्याणविजयेनेयं, चतुर्विंशतिका कृता // 1 // इति मुनिवर्यश्रीकल्याणविजयविरचिता चैत्यवन्दनचतुविंशतिका समाप्ता / : . 2 स्तुति-संग्रहः . मुनिराजश्रीकल्याणविजयादिविरचितः / श्रीआदिजिनस्तुतिः (शौरसेन्याम् ) . . द्रुतविलम्बितवृत्तम् पुरवपुण्णभरादुः समजिय, नरभवं विभवंचिदमंदिरं / निजहिदं जदि इच्छध माणवा, नमध नाभिसुदं जिणनायगं॥१॥ 1 छाया-पूर्वपुण्यभरात् समये, नरभवं विभवाञ्चितमन्दिरम् / निजहितं यदि इच्छथ मानवा !, नमत नाभिसुतं जिननायकम् //