________________ मुनिवसन-सिद्धिः 239 न च वचो वचनीयमपाकृत-नयचयं जिनकल्पयुजो वयम् / न हि भवन्ति तके सिचयोज्झिताः, सम इहोपधिभेदविचित्रता // 10 // न च रुषस्तव युक्तिपदं धृते, मुनिवरैः शुभसंयमहेतवे / उपकृतौ क्षम उज्झितसङ्गमै रजहरप्रभृतौ शिवसाधने // 11 // जनिरभूत्तव निश्चितमूह्यतां, विशदवासस उत्तमसाधनात् / इतरथा कथमम्बरवर्जनं, तव मतस्य रवे स्फुटमीक्ष्यते // 12 // यदि परं सितवासस उद्भवस्तव मताद् वसनोज्झननर्तनात् / ससिचया इति तस्य मताभिधा, प्रसृमरी भवतीह न चान्यथा // 13 // तव मते वृषसाधन उज्झिते, वनितया चरणं न हि साध्यते / शिवपदं न च केवलयुक् पुनः, तदहहाङ्गजहेतुरिलाहतिः // 14 // न च गताम्बरिका न हि योषितः, परमते यदिमा वसनोज्झिताः / स्फुटतरं तु निभालय योगिनीर्न रुचिरं रुचितं तव तन्मतं // 15 // शिशु-मदाविल-भूतगणादितो, भवति नग्न इहापि न शम्यसौ / जिनप-शासनसम्मतमाश्रयावसनवर्जनमाश्रवसंहतेः // 16 // स्वपर-लिङ्गि-गृहाश्रितलिङ्गिना, निगदिता पदवी शिवभाविनीं / श्रुतततौ घटते शुभभाविना-मनुमतं तदिहाम्बरवर्जित ! // 17 / / ममतया रहितो मुनिराहतो, यदि परो भवतीह शिवं गमी / मतमिदं सकलाघविनिर्गतं, श्रयति शुद्धमनाः श्रुतभावुकः // 18 //