________________ 206 आगममहिमा नरो भवेद्यदा पुनर्विधूतपापकश्मलः, सुधर्मसाधनोद्धुरो विहाय कालमार्भकम् / श्रितो भवस्य यौवनं तदा ध्रवं सदागमान् , विचिन्त्य कार्यमादधाति मोक्षगामी च पुनः // 48 // शस्यते समस्तधर्मवेदिभिः , स मानवो य आगमं समाश्रितः / दूषणं परस्य शंसने मतं, यतस्ततो भवति दृष्टिरावमी // 49 / / आस्तिक्यं किं मतं भो ! द्विविधमनुपमं लौकिकं चोत्तरं च, प्रेत्यादेबुद्धिराद्यं गदितमनुभयं सार्वसूक्तागमेषु / नित्योऽनित्योऽपि जीवप्रमुख इह मतो मुद्रया स्यात्पदाङ्गया, मोक्षान्तस्त्वागमोक्तेरिति मननमिहानुत्तरं चोत्तरं तत् // 50 // सम्यक्त्वचिह्नानि शमादिकानि सद्भिः प्रशस्यानि तदैव चेद् हृदि / जिनेन्द्रदेवागमवासना-सुधो-क्षितत्वमीक्ष्येत बलीय आप्तैः // 51 // शमोऽप्यनन्तेषु भवेषु चीणों, निर्वेदसंवेगघृणास्तितादि / परं न जैनागमसंस्कृतं तद् , जाता ततो नैव ममाभिनिवृतिः / / 52 / / सदागमा भो ! कथमहणापदं, गताः सतां वर्णपदादिसाम्ये / उक्ता जिनेन्द्रैरिति चेत् तके कथं, प्रमाणमित्यन्यपदं न किं मतम् / / 53 // सदागमानां भगवान् प्रणेता, प्रघोष इत्थं न सुखाकरः स्यात् / उच्यन्त आप्तैननु शब्दमात्राद्, न चार्थरूपास्तु वचो ब्रजन्ति / / 4 / / वक्ताऽर्हन् भुवि देशनाश्रयगतोऽर्थस्याश्रितः सन्नरैः , किं सत्यं तकदुच्यते न पुरुषैर्वाच्योऽर्थ आ नो मतः /