________________ आगमोद्धारककृतिसन्दोहे 205 नयति नौस्तटमम्बुधिपारगं, प्रवरपण्यभरं फलमश्नुते / ननु च नाविक उत्तमतां, तथा, ननु लभन्त इहागमतो जिनाः // 42 / / लेखा रेखां विदन्तो ननु जिनपमहात् पूजयन्तीह शास्त्रं, पूजां धत्ते च शास्ता प्रमुख इह भुवो देशनायाः प्रकामम् / सङ्घस्याप्तागमान् यद्धरति सुनिपुणं सर्वकालं यतोऽसौ, .. नीतिं लोकान् ददर्शाऽतनुमहिमभुवं पूज्यपूजाङ्कितां ताम् // 43 // जगत्पतित्वमर्हतां मतं जिनेन्द्रशासने, न मन्यतेऽमुना यतः परस्परं विरोधभाक् / त्रिकालगं जगन्न तु प्रभुप्रभावभावनं, सदागमाः सनातना जिनास्तदुपदेशकाः // 44 // कथं मायाद्विश्वे जिनप ! तव यशो दिक्षु दशसु, दधौ जन्मान्त्यं यत् प्रवरनृपगृहे सत्कुलगतः / गतोऽप्यन्ते मोक्षं न च तव विशेषो जगति नु, त्वदुक्तो यन्नित्यं तनुत आङ्गो महपदम् // 45 / / सदागमाः सदा जनेषु धर्मभावबन्धुरा, जिनाः सदैव सान्तरा निरन्तरा इमे पुनः / परं न शुद्धशब्दमात्ररूपधारका अमी, ... सदर्थरूपतां परां दधत आर्षरूपतः अतीतकाल आईती सदागमावलीमिमा.. मवापुरार्हताः पदं सदात्मशुद्धिजं परम् / . श्रिता विशुद्धिमार्गतो विहाय संमृतिं परां, सुभाविनोऽपि तद्वदेव कीर्तिराहंती सका // 4 // // 46 //