________________ 202 आगममहिमा नरा जगत्यां किल साम्प्रतक्षिणो, धरन्ति सञ्ज्ञां खलु दीर्घकालिकीम्। साफल्यमस्या विदधाति विद्वाँस्त्वदागमोबुद्धभविष्यदर्थः // 18 // कथं लक्ष्यो देवः प्रशमरसरतोऽबाध्यशिवगः , कथं सूरिः श्रेयःसरलतरमोक्षाध्वधृतये / कथं यम्या यामा भवजनिमृतेदुःखहतये, न चेत्ते साक्षात् स्यान्निरुपमकृतिांगमगता // 19 // तीर्थं तीर्थं जिनानां न तु जिनपतयः किं न दुष्टोक्तिरेपा, मान्या सा सर्वमान्यैः स्ययमुदितचरी श्रद्धयाऽप्यागमानाम् / सत्यं सौरः प्रकाशः प्रभवति जनता ज्योतिषेनैव सूर्यो, नैषा सूर्यस्य हानिः स्वप्रभवसुषमया तद्वदाप्ते स्वतीर्थात् // 20 // सुविदितं खलु सज्जनसन्तते-र्यदधमं परदोषविकत्थनम् / तदपि दृष्टिचरं नहि चेद् भवेत् , भवति सत्पददाऽऽगमसन्ततिः // 21 // न्यायो यदेष जिन ! मानभरः स्वबोधे, यत्तेन बाधितमरं स्वहिताय जह्यात् / नाथाऽऽगमावलिरसाश्चितचित्तभारो, लोय मोक्षपदलीनमनास्त्वहं तम् / // 22 // मत्तो जनो न जगतीह समीक्ष्यकारी, यत्सोऽधिगच्छति पदार्थमपेतमानम् / सार्वागमोनिरसपानविमुखचेता, वेत्ता जगत्त्रयमिति प्रबलं न मानम् ? . // 23 // जगति जीवनजातमहो! मतं, प्रतिक्षणं विशरारु रुगर्दितम् / तव जिनागमसञ्चितसंयमैः, प्रतिकलं पदमाप्यत उत्तमम् // 24 //